SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ वाणुजोजणमणुओगो सुअस्स णियएण जमभिहेएण ।वावारो वा जोगो जो अणुरूवोऽणुकूलो वा ॥१॥” इति, प्रा. अर्थापेक्षया अणोः-लघोः पश्चाजाततयां वाऽनुशब्दवाच्यस्य योऽभिधेयो योगो-व्यापारस्तत्सम्बन्धो वाऽणुयोगोऽनुयोगो वेति, आह च-"अहेवा जमत्थओ थोवपच्छभावेहिं सुअमणुं तस्स । अभिधेये वावारो जोगो तेणं व संबंधो॥१॥"त्ति, तस्य द्वाराणीव द्वाराणि-प्रवेशमुखानि, अस्याध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, पुरदृष्टान्तश्चात्र, यथा हि अकृतद्वारकं पुरमपुरमेव, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च स्यात् , चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवं जम्बूद्वीपप्रज्ञप्त्यध्ययनपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति एकद्वारानुगतमपि च दुरधिगम सप्रभेदचतुर्दारानुगतं तु सुखाधिगम कार्यानतिपत्तये च स्यादतः फलेग्रहिरोपन्यास इति ५। तानि च द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तद्भेदाः६ । निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनयविनयादित्युपक्रमः इत्यपादानसाधन इति, एवं निक्षेपणं निक्षेप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः-उपक्रमानीतव्याचि १ अनुयोजनमनुयोगः श्रुतस्य (सूत्रस्य ) निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥१॥२ अथवा यदर्थतः स्तोकपश्चाद्भावाभ्यां सूत्रमणु (अनु) तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ॥१॥ Jain Education inte For Private Porn Use Only Miainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy