Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 10
________________ - (अभिनव) 'कल्याणमन्दिर'रूपेण जैनग्रन्थावल्यां 215 तमे पृष्ठे यस्य निर्देश: समस्ति स एतत्परत्वे एवेति सम्भावना / निश्चयस्तु प्रतिदर्शनं विना कथं स्यात् ? / जैनधर्मवरस्तोत्रस्य पद्धति : उपर्युक्तविवेचनेन स्पष्टीभवति यदुतास्य स्तोत्रस्य आधचरणत्रयं कविराजैः स्वयं निरमायि, अवशिष्टश्चतुर्थश्चरणस्तु सुप्रसिद्धजैनस्तोत्ररत्नस्यान्तिमः / एतादृशि काव्यानि वर्तन्ते, यथाहि (1) श्रीकान्तिविजयगणिकृतं श्रेष्ठिप्रेमचंद रतनजी भाण्डागारसत्कम् / (2) लींबडी भाण्डागारसत्कं 1613 क्रमाङ्कलक्षितम् (3) प्रवर्तकपुङ्गवश्रीमत्कान्तिविजयसत्कं श्रीप्रेमजीमुनिवरविरचितम् / अत्र प्रथमं तु नोपलब्धं, स्वर्गस्थशास्त्रविशारदश्रीविजयधर्मसूरिसङ्कलिते प्रशस्तिसङ्ग्रहे उल्लेखेऽपि सति / तृतीयं तु मुद्रितमस्मिन् ग्रन्थे परिशिष्टरूपेण / अस्मिन् श्रीजैनधर्मवरस्तोत्रे प्रसङ्गोपात्ता विविधाः कथा मनोरञ्जकशैल्या गुम्फिता दरीदृश्यन्ते / न केवलं गीवार्णगिरायां प्राकृतभाषायां च साक्षिरूपाः पाठाः सन्ति, किन्तु गूर्जरायां 'डिंगळ'( ? ) सञ्झकायां च / अपरञ्च स्तोत्रकर्तृणां गूर्जरभाषायाः पाण्डित्यं किंविधमिति जिज्ञासा तृप्यति गूर्जरोल्लेखावलोकनेन / किञ्च कतिपयानां गूर्जरशब्दानां संस्कृतरूपेण परिवर्तनमपि ग्रन्थकारैरकारीति तय॑ते / यथाहिपृष्ठाङ्कः संस्कृतपरिवर्तनम् गूर्जररूपम् 114 गाञ्छिक घांची 50 घोटक घोडो चोप्पडक चोपडा झोलक झोळी 42 थकित थाकेल 42 42 1. एवंविधानां पादपूर्तिरूपाणां काव्यानां प्राचुर्यं विद्यते जैनसाहित्ये / तत्र भक्तामरपादपूर्तिरूपाः कृतयो निर्दिष्टा मया नामोल्लेखेन भक्तामरभूमिकायाम् / मेघदूतसमस्यारूपाणां काव्यानां नामानि सूचितानि वीरभक्तामरस्य उपोद्घाते (पृ० 3) / 2. एका तु वसुदेवहिण्ड्या उद्धृता / समीक्ष्यतां द्वात्रिंशत्तमं पृष्ठम् / 3. प्रेक्ष्यतां 4, 5, 29, 30, 77, 82-86 अङ्काङ्कितानि पृष्ठानि /

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 194