Book Title: Ilatiputra Charitram Author(s): Shubhsheel Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इलाती चरित्र ॥३॥ Neeeeeeeeeeeeeeeeeee इत्यादि वैराग्यमेव भावयन् स्त्रीसंग केवलं नरकप्रदमेव स मन्यतेस्म. अथेवं वैराग्यपरं निजपुत्रं त्रिवर्गशून्यमेव मन्यमानस्तस्य जडबुद्धिः पिता तं विषयकुशलं विधातुमिच्छतिस्म. अथासौ नगरमध्यात्का. श्चन दुर्ललितान् सप्तव्यसनोपेतान् वेश्यागमनप्रवीणान् यूनो निजपावे समाहूय कथयामास, भो पुरु- पाः ! यूयमेनमिलातीपुत्रं. मम तनयं युष्मत्सार्थे गृहीत्वा स्त्रीविषयादिषु प्रवीणं कुरुध्वं ? तत्र च यद्व्यादि युज्यते, तत्सर्वं ममायतो ग्राह्यं. एवं तदुनानि वचनानि श्रुत्वा प्राप्तदुग्धा बिडाला इव प्रहृष्टमानसास्ते दुर्ललिताः कथयामासुः, भो श्रेष्ठिन् ! एतत्वस्माकं कार्यमेव, स्तोकेनैव कालेन वयमिममिलातीपुत्रं सर्वविषयेषु कुशलं करिष्यामः, अथ श्रेष्ठयपि तं निजपुत्रमिलातीपुत्रं समाइय कथयामास, भो पुत्र ! अद्यप्रभृति एते सज्जनास्तव मैत्री कर्तु वांछंति, अतस्त्वमप्येभिःसह गत्वा सकलव्यवहारकुशलो भव ? एते सर्वप्रकारस्तव मानसमानंदयिष्यंति. एवं निजतातादिष्टःस इलातीपुत्रोऽपि तैःसह चलितः अथ ते दुललिता वसंतोत्सवे जातिकेतकीचंपकाशोकचूतादीनां प्रफुल्लकुसुमादिभिः सुरभीभृते उद्याने तमिलातीपुत्रं निन्युः. इतस्तत्र लंखिकाख्यनटस्यैका कन्यका तत्र नृत्यंती तेन राजपुत्रेण दृष्टा, सा च EAAAEAEAEAEVE e For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16