Book Title: Ilatiputra Charitram
Author(s): Shubhsheel Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इलाती चरित्रं ॥१०॥ ESSAGESSAGE ध्यानाधिरूढस्य च तस्येलातीपुत्रस्य तत्रैव वंशोपरि स्थितस्य केवलज्ञानं समुत्पन्नं. तदैव शासनदेवतादत्तमुनिलिंगोऽसौ कनककमलस्थितो भृपादीनामाश्चर्य जनयन् धमोंपदेशं दत्तवान्. यथा-भो भव्या इह संसारे । मानुष्यमतिदुर्लभं ॥ लब्धा पाथोनिधेमध्ये । चिंतारत्नमिवामलं ॥१॥दान शोलतपोभाव-मये धमें चतुर्विधे ॥ यतनीयं भवद्भिश्च । स्वर्गमोक्षसुखार्थिभिः ॥ २ ॥ युग्मं ॥ इत्यादिधोपदेशमाकर्ण्य राज्ञा तस्येलातीपुत्रस्य केवलिनोमुनेः पृष्टं, भो मुनिराज! भवतोऽस्यां नटकन्यायां रागः कथमभवत् ? तत श्रुत्वा स केवली जगौ, पूर्व वसंतपुराख्ये नगरे भूपपुरोहितो मदननामा द्विजोऽभृत्. । तस्य द्विजस्य मोहिन्यभिधा वल्लभा प्राणेभ्योऽप्यतिप्रियतमा बभूव. अथान्येास्ती दंपती सुगुरोः पार्श्वे : धर्मोपदेशं श्रुत्वा प्रतिबुधो दीक्षां जग्रहतुः. एवं दीक्षितयोरपि तयोः परस्परं प्रोतिरतीवरागतंतुभिः स्यूतेव सर्वथा नात्रुटत्. इतोऽन्यदा केनचित् पृष्टा सा मोहिनी साध्वी जातिमदेन मुढात्मतया निजमुखेन स्वकीयं द्विजजातिसंभवमुत्तमं कुलं प्रशंसयामास. एवंविधं जातिमदसंभवं निजदुष्कर्म गुरूणामग्रेऽनालोच्यैव मृता स्वर्गे गता. स द्विजोऽपि निजायुःक्षयेण मृतो देवलोके गतः. ततः स देव आयुःक्षये त RECExeॐॐॐॐॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16