Book Title: Heersaubhagya Mahakavyam Part 03 Author(s): Devvimal Gani, Sulochanashreeji Publisher: Kantilal Chimanlal ShahPage 14
________________ सर्ग १४ श्लो ० ३-५] हीरसौभाग्यम् ४६३ બ્લેકાર્થ માર્ગમાં ચાલતા ભૂમીન્દ્ર (રાજા) અરે મુનીન્દ્ર અત્યંત શુભતા હતા, જાણે, કેઈક કૌતુકથી પ્રેરાઈને પૃથ્વી ઉપર આવેલા ચંદ્ર અને સુર્ય ન હોય ! ૩ विभुज्य कण्ठं क्षितिपाकशासननो दृशं दिदेश द्विरदद्विषन्निव । तथा स्थितानेष गवेषयंस्ततोऽनगारपारीन्द्रमुनीनजूहवत् ॥४॥ क्षितिपाकशासनो धात्रीसुत्रामा साहिः कण्ठं ग्रीवां विभुज्य चक्रीकृत्य पश्चाबालयिस्वा दृष्टिं दृशं दिदेश दत्तवान् । क इव । द्विरद द्विषन्निव । यथा दन्तिनां प्रतिपक्ष : सिंहः कण्ठ विभुज्य दश दत्ते । केसरी अग्रे गच्छन् पश्चाद्विलोकयतीति तत्स्वभाव एव । 'गिरा विभु रि विभुज्य कण्ठम् इति नैषधे । ततोऽग्रे कियदागत्य पश्चात् दृष्टिदानान्तरमेष साहिरनगारपारीन्द्रस्य साधुसिन्धुररातेः सूरेः। अथ वा अनगारेषु मुनिषु पारीन्द्राः दुर्वादिवारणवित्रासकत्वेन कण्ठीरवाः। अथ वा यतिसु मुख्याः। 'स्युरुत्तरपदे व्याघ्रपुंगवर्ष भकुञ्जराः । सिंहशार्दूलनागाधाः पुसि श्रेष्ठार्थ गोचराः ॥' इति हैम्यामुक्तत्वात् । तादृशान मुनीन् श्रमणानजूहवदाकारयामास । एष किं कुर्वन् । यत्र सूरिणा सार्थ । मिलितास्तत्रैव स्थितांस्तिष्ठतः अथ वा तत्रैवाधी भूय स्थितिं कुर्व तो गवेषयन्पश्यन् ॥ શ્લેકાર્થ ચાલતા ચાલતા રાજાએ સિંહની જેમ પાછું વાળીને જોયું ! ત્યાં નીચે રહેલા મુનિપુંગવોને જોતાં બાદશાહે પિતાની પાસે બોલાવ્યા છે ૪ છે सुरैरिवेन्द्रः कलभैरिव द्विपौ ग्रहैरिवार्कश्च शशीव तारकैः । अदीद्युतद्वर्त्मनि सूरिवासवोऽनुगम्यमानो मुनि गवैस्ततः ॥ ५ ॥ ततस्तेषां साहिनाकारणानन्तर मुनिपुंगवैर्वाचंयमवृषभैरनुगम्यमानो वर्त्मनि तस्मिन्नेव चित्रशालिकाध्वनि सुरिवासवः अदीधित । क इव । सुरैर्वृन्दारकैः इन्द्रः पुर दर इव । पुनः क इव । कलभैः त्रिंशद्वर्षीयस्त बेरमैदिपः षष्टिहायनयूथनाथ इव गजेन्द्र इव । पुनः क इव । ग्रहैमङ्गलादिभिरको भास्थानिव ग्रहपतित्वात् । ग्रहाजिनीगोधुपतिPage Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 444