________________
सर्ग १४ श्लो ० ३-५]
हीरसौभाग्यम्
४६३
બ્લેકાર્થ
માર્ગમાં ચાલતા ભૂમીન્દ્ર (રાજા) અરે મુનીન્દ્ર અત્યંત શુભતા હતા, જાણે, કેઈક કૌતુકથી પ્રેરાઈને પૃથ્વી ઉપર આવેલા ચંદ્ર અને સુર્ય ન હોય ! ૩
विभुज्य कण्ठं क्षितिपाकशासननो दृशं दिदेश द्विरदद्विषन्निव । तथा स्थितानेष गवेषयंस्ततोऽनगारपारीन्द्रमुनीनजूहवत् ॥४॥
क्षितिपाकशासनो धात्रीसुत्रामा साहिः कण्ठं ग्रीवां विभुज्य चक्रीकृत्य पश्चाबालयिस्वा दृष्टिं दृशं दिदेश दत्तवान् । क इव । द्विरद द्विषन्निव । यथा दन्तिनां प्रतिपक्ष : सिंहः कण्ठ विभुज्य दश दत्ते । केसरी अग्रे गच्छन् पश्चाद्विलोकयतीति तत्स्वभाव एव । 'गिरा विभु रि विभुज्य कण्ठम् इति नैषधे । ततोऽग्रे कियदागत्य पश्चात् दृष्टिदानान्तरमेष साहिरनगारपारीन्द्रस्य साधुसिन्धुररातेः सूरेः। अथ वा अनगारेषु मुनिषु पारीन्द्राः दुर्वादिवारणवित्रासकत्वेन कण्ठीरवाः। अथ वा यतिसु मुख्याः। 'स्युरुत्तरपदे व्याघ्रपुंगवर्ष भकुञ्जराः । सिंहशार्दूलनागाधाः पुसि श्रेष्ठार्थ गोचराः ॥' इति हैम्यामुक्तत्वात् । तादृशान मुनीन् श्रमणानजूहवदाकारयामास । एष किं कुर्वन् । यत्र सूरिणा सार्थ । मिलितास्तत्रैव स्थितांस्तिष्ठतः अथ वा तत्रैवाधी भूय स्थितिं कुर्व तो गवेषयन्पश्यन् ॥
શ્લેકાર્થ
ચાલતા ચાલતા રાજાએ સિંહની જેમ પાછું વાળીને જોયું ! ત્યાં નીચે રહેલા મુનિપુંગવોને જોતાં બાદશાહે પિતાની પાસે બોલાવ્યા છે ૪ છે
सुरैरिवेन्द्रः कलभैरिव द्विपौ ग्रहैरिवार्कश्च शशीव तारकैः । अदीद्युतद्वर्त्मनि सूरिवासवोऽनुगम्यमानो मुनि गवैस्ततः ॥ ५ ॥
ततस्तेषां साहिनाकारणानन्तर मुनिपुंगवैर्वाचंयमवृषभैरनुगम्यमानो वर्त्मनि तस्मिन्नेव चित्रशालिकाध्वनि सुरिवासवः अदीधित । क इव । सुरैर्वृन्दारकैः इन्द्रः पुर दर इव । पुनः क इव । कलभैः त्रिंशद्वर्षीयस्त बेरमैदिपः षष्टिहायनयूथनाथ इव गजेन्द्र इव । पुनः क इव । ग्रहैमङ्गलादिभिरको भास्थानिव ग्रहपतित्वात् । ग्रहाजिनीगोधुपति