Book Title: Heersaubhagya Mahakavyam Part 03 Author(s): Devvimal Gani, Sulochanashreeji Publisher: Kantilal Chimanlal ShahPage 18
________________ सर्ग १४ श्लो० ११-१३] हीरसौभाग्यम् ४६७ શ્લોકાર્થ અહે! સૂરિજી હું આપની વિશ્વલાઘનીય કૃપાલુતા, પિતાના આચારની નિપુણતા, મેઘ જેવી પોકારિતા અથવા સન્માર્ગદશક્તા આદિ સદ્ગુણેની શું શું સ્તુતિ ४२!॥११॥ जगत्यसाधारणता व्यतकि वः क्षणादनेनाचरणेन शासने । सुधाभुजां भूमिरुहीव कामितप्रदातृभावेन मुमुक्षुपुंगबाः ॥ १२ ॥ - हे मुमुक्षुपुंगवाः सूरीश्वराः, अनेन समग्रजगजन्तुजातपालनलक्षणेन आचरणेन सदाचरणविधानेन कृत्वा क्षणादल्पकालात्तत्कालमेव मया वो युष्माकशासने जैनदर्शने जगति विश्वे असाधारणता सर्वेभ्योऽद्वैतता एतावता पञ्चभ्यो दर्शनेभ्यो युष्माक जैनशासनमसाधा. रणमेवेति व्यतर्कि मया विचारितम् । ज्ञातिमित्यर्थः। कस्मिन्निव । भूभिरुहीव । यथा कामितानामहिकाशेषमनोभिलषितानां प्रकर्षेण दातृभावेन दायकत्वेन सुधाभुजाममृताशनानां पादपे असाधारणता वितळते, एतावता यथा सर्ववृक्षजातिभ्यः कल्पद्रुमा विशेषास्तथान्यशासनेभ्यः श्रीमच्छासनमिति ॥ इति सूरीन्द्रकृपालुताजैनशासनयोः प्रशंसा ॥ પ્લેકાર્થ હે સૂરીન્દ્ર, સર્વવૃક્ષની જાતિમાં ઈષ્ટફલની પૂર્તિ વડે જેમ કલ્પવૃક્ષની અસાધારણતા છે તેમ આપના સત્ આચરણ વડે જગતમાં જિનશાસનની અદ્વિતીયતા છે. | ૧૨ છે कथीपकस्यास्तरणं ततः करद्वयेन दुरीकृतवान्स्वयं नृपः। मुनीन्द्रसङ्गादिव पापमात्मनः प्रभुः पुनाति स्म पुनः स तां क्षितिम् ॥ १३॥ ततः प्रभुकृपालुतावगमनप्रणीतप्रशंसानन्तर नृपोऽकब्बरः स्वयं तत्रान्यसेवकाभावादा. स्मनैव करद्वयेन पाणिपद्मद्वन्द्वेन कथीपक इति नाम्नः परदेशोत्पन्नजातिविशेषपट्टसूत्रमयवनस्यास्तरणं दुलीचकापराभिधान दूरीकृतवानपसारयति स्म । पश्चात्कृत इत्यर्थः । पृथक्चक्रे । उत्प्रेक्ष्यते-मुनीन्द्रस्य हीरमूरेः सङ्गादात्मनः स्वस्य पापमिव दूरीचकार । तस्य दूरीकरणात्प्रभुः सरिस्तामास्तरणरहितां क्षिति पुनाति स्म पवित्रयामासिवान् । उर्ध्व धरामाश्रोहेत्यर्थः । चित्रशालिकात्रिसापानभूमौ चढित इत्यर्थः ॥ સૂરીશ્વરજીના સંગથી પિતાના પાપને જાણે દૂર કર્યા ન હોય તેમ રાજાએ સ્વયં પિતાના હાથે જ ગાલીચાને દૂર કર્યો ! ત્યાર પછી આચાર્ય મહારાજે તે સોપાનભૂમિ પર પદાર્પણ કર્યું. ૧૩Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 444