Book Title: Heersaubhagya Mahakavyam Part 03 Author(s): Devvimal Gani, Sulochanashreeji Publisher: Kantilal Chimanlal ShahPage 16
________________ 5 सर्ग १४ श्लो ७-९ ] हीरसौभाग्यम् ४६५ कस्मिन्नपि प्रस्तावे पदं चरण न दधे न मुञ्चामि । चक्षुरदृष्टभूमौ कथमपि क्रम नं निक्षिपामीत्यर्थः । ततः सूरिकथनानन्तरं साहिरभ्यधाद्वक्ति स्म । हे स्ररयः, अत्र त्रिशालिकायां दुलीचकाच्छादितायां च भूमौ कदापि कस्मिन्नपि समये वर्षाग्रीष्मा - दावपि कश्चन कोऽपि कीटकादिरसुमान् जीवो न भवेत् नैव स्यात् । क इव । यथा सुराणां मन्दिरे देवगृहे स्वर्गे भूचरो नरो मनुजो न स्यात् ॥ શ્લાકા ત્યાર પછી ગુરુમહારાજે કહ્યું : હે રાજન્, આની નીચે કીડી આના સંભવ હાય તેથી અમેા તેના ઉપર પગ મૂકી શકીએ નહી. સૂરિજી, જેમ સ્વગમાં મનુષ્યના સંચાર ન હેાય તેમ મારી આ પણ જીવાને સંભવ હાઈ શકે નહીં. ॥ છ u આદિ ક્ષુદ્ર જંતુત્યારે રાજાએ કહ્યું : ચિત્રશાલામાં કાઈ गुरुर्जगावाचरणं तथाप्यदः पदं निभायैव ददे परत्र नो । यतः स्वकीयाचरणं मुमुक्षुणा प्रयत्नतो रक्ष्यममर्त्यरत्नवत् ॥ ८ ॥ गुरुः वरिः पुनर्जगौ जल्पति स्म - हे साहे, यद्यपि श्रीमचित्रशालिकायां रचनाचारिमदुलीचकस्य अध उपरि वा सर्वथापि कीटिकादिजन्तुर्न स्यात्, तथापि जीवाभावे सत्यपि ममाद एतदाचरणमाचारो वर्तते यदहं निभालय अग्रेतनां युगप्रमाणां भूमिकां नेत्राभ्यां विलोक्यैव पद ददे स्थापयामि, न परत्र चक्षुरनवेक्षिते स्थाने सर्वथापि क्रमं न मुञ्जामि | 'दृष्टिपूतं न्यसेत्पाद वस्त्रपूतं पिबेञ्जलम् । सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥' इति नीतिशास्त्रेऽपि । हे साहे, यतः कारणान्मुमुक्षुणा संसारकारागरात्स्वं मेाचयितुमिच्छता यतिना स्वकीयाचरणं निजस्याचारः प्रयत्नतः प्रमादनिद्राकषायादीनां निराकरणाद्रक्ष्य सम्यक्परिपालनीयम् । किंवत् । अमर्त्यरत्नवत् । यथा संतुष्टेन केनचिद्देवेन दत्तं चिन्तामणि सम्यक्प्रयत्नेन कृत्वा रक्ष्यते ॥ લેાકાથ આચાર્ય મહારાજે કહ્યું : રાજન, યદ્યપિ ચિત્રશાલાના આ ગાલીચા નીચે જીવજંતુ ના હાય તા પણ અમારે જોઈને જ પગ મૂકવા જોઈએ. મુમુક્ષુ એવા સાધુપુરુષોએ ચિંતામણિ રત્નની જેમ પેાતાની આચાર મર્યાદાનું સર્વથા રક્ષણુ કરવું જ જોઈએ ૫ ૮ ! ततः स यावत्कुरुते तदुच्चकैर्बभूव तावत्प्रकटैव कीटिका । व्रतिप्रभारप्रतिमां कृपालुतां पुरः क्षितीन्दोर्गदितुं किमात्मना ॥ ९ ॥ हि० सौ० ५९Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 444