________________
5
सर्ग १४ श्लो ७-९ ]
हीरसौभाग्यम्
४६५
कस्मिन्नपि प्रस्तावे पदं चरण न दधे न मुञ्चामि । चक्षुरदृष्टभूमौ कथमपि क्रम नं निक्षिपामीत्यर्थः । ततः सूरिकथनानन्तरं साहिरभ्यधाद्वक्ति स्म । हे स्ररयः, अत्र त्रिशालिकायां दुलीचकाच्छादितायां च भूमौ कदापि कस्मिन्नपि समये वर्षाग्रीष्मा - दावपि कश्चन कोऽपि कीटकादिरसुमान् जीवो न भवेत् नैव स्यात् । क इव । यथा सुराणां मन्दिरे देवगृहे स्वर्गे भूचरो नरो मनुजो न स्यात् ॥
શ્લાકા
ત્યાર પછી ગુરુમહારાજે કહ્યું : હે રાજન્, આની નીચે કીડી આના સંભવ હાય તેથી અમેા તેના ઉપર પગ મૂકી શકીએ નહી. સૂરિજી, જેમ સ્વગમાં મનુષ્યના સંચાર ન હેાય તેમ મારી આ પણ જીવાને સંભવ હાઈ શકે નહીં. ॥ છ u
આદિ ક્ષુદ્ર જંતુત્યારે રાજાએ કહ્યું : ચિત્રશાલામાં કાઈ
गुरुर्जगावाचरणं तथाप्यदः पदं निभायैव ददे परत्र नो । यतः स्वकीयाचरणं मुमुक्षुणा प्रयत्नतो रक्ष्यममर्त्यरत्नवत् ॥ ८ ॥
गुरुः वरिः पुनर्जगौ जल्पति स्म - हे साहे, यद्यपि श्रीमचित्रशालिकायां रचनाचारिमदुलीचकस्य अध उपरि वा सर्वथापि कीटिकादिजन्तुर्न स्यात्, तथापि जीवाभावे सत्यपि ममाद एतदाचरणमाचारो वर्तते यदहं निभालय अग्रेतनां युगप्रमाणां भूमिकां नेत्राभ्यां विलोक्यैव पद ददे स्थापयामि, न परत्र चक्षुरनवेक्षिते स्थाने सर्वथापि क्रमं न मुञ्जामि | 'दृष्टिपूतं न्यसेत्पाद वस्त्रपूतं पिबेञ्जलम् । सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥' इति नीतिशास्त्रेऽपि । हे साहे, यतः कारणान्मुमुक्षुणा संसारकारागरात्स्वं मेाचयितुमिच्छता यतिना स्वकीयाचरणं निजस्याचारः प्रयत्नतः प्रमादनिद्राकषायादीनां निराकरणाद्रक्ष्य सम्यक्परिपालनीयम् । किंवत् । अमर्त्यरत्नवत् । यथा संतुष्टेन केनचिद्देवेन दत्तं चिन्तामणि सम्यक्प्रयत्नेन कृत्वा रक्ष्यते ॥
લેાકાથ
આચાર્ય મહારાજે કહ્યું : રાજન, યદ્યપિ ચિત્રશાલાના આ ગાલીચા નીચે જીવજંતુ ના હાય તા પણ અમારે જોઈને જ પગ મૂકવા જોઈએ. મુમુક્ષુ એવા સાધુપુરુષોએ ચિંતામણિ રત્નની જેમ પેાતાની આચાર મર્યાદાનું સર્વથા રક્ષણુ કરવું જ જોઈએ ૫ ૮ !
ततः स यावत्कुरुते तदुच्चकैर्बभूव तावत्प्रकटैव कीटिका । व्रतिप्रभारप्रतिमां कृपालुतां पुरः क्षितीन्दोर्गदितुं किमात्मना ॥ ९ ॥ हि० सौ० ५९