________________
४६६
हीरसौभाग्यम्
[ सर्ग १४ श्लो० ९-११
ततो गुरुगदितानन्तरं सेोऽकब्बरो यावद्दुलीचक करे गृहीत्वा पश्चादुश्चकैः करोति ऊर्ध्वमुत्पाटयति, तावत्तत्र प्रदेशे कीटिकैव प्रकटा साहिलोचनगोचरा बभूव संजाता नृपेण स्वदृष्ट्या दृष्टा । उत्प्रेक्ष्यते - क्षितीन्दाः पुरो राज्ञेोऽग्रे व्रतिप्रभोः सूरेः अप्रतिमामसाधारणां कृपालुतां दयावत्तामात्मनेव स्वेन गदितुं कथयितुमिव प्रकटीकर्तुमिव ॥
શ્લેાકાથ
ત્યાર પછી રાજાએ સ્વય' ગાલીચાને ઊંચા કરીને જોયું તે અસંખ્ય કીડીએ નજરે પડી. તે જાણે રાજાની આગળ આચાય મહારાજની નિઃસીમ કૃપાલુતાને કહેવા માટે આવી ન હોય!! હું !!
ततः क्षितौ स्वस्य यथैकभूपतां गुरोस्तथाद्वैतदयाधिनाथताम् । अवेत्य चित्तेऽतिचमत्कृतिं वहन्मुहुर्मुहुस्तं प्रशशंस भूमिमान् ॥ १० ॥
नतः कीटिकादर्शनानन्तरं स भूमिमानकब्बर साहिर्मुहुर्मुहुर्वारंवारं तं सुरीन्द्रं प्रशशंस श्लाघते स्म । किं कुर्वन् । चित्ते मनस्य तिचमत्कृतिमतिशयेनाश्चर्य वहन् दधत् । किं कृत्वा । क्षितौ क्षितिमण्डले स्वस्यात्मनेो यथा येन प्रकारेण अन्यराजसु तादृक्स्फूर्तिमा हात्म्याद्यभावात् स्वस्यैव तदद्वैतत्वेन पकभूपतामद्वैतपातिसाहितां तथा तेन प्रकारेण गुरोरद्वैतामनन्यसामान्यां दयायाः कृपाया अधिनाथतां स्वामित्वम् । कृपालुतामित्यर्थः । चित्ते स्वमान से अवेत्य ज्ञात्वा । चित्ते इत्युभयत्रापि योजनीयम् ॥
શ્લાકા
જગતમાં જેમ પાતે એકછત્રી સામ્રાજ્યના સ્વામી છે તેમ આચાય મહારાજને અસાધારણ દયાના સ્વામી જાણીને મનમાં આશ્ચય પામને રાજા વારંવાર સૂરિજીની प्रशंसाने उरतो तो ॥ १० ॥
कृपालुतां वः किमहो महीयसीमुत स्तुवे स्वाचरणप्रवीणताम् ।
trafe तु परोपकारितां निरूपकं वा भवतां शुचेः पथः ॥ ११ ॥
अहो सूरयः, अहं वो युष्माकं महीयसीमतिगुर्वी विश्वप्रशस्यां कृपालुता सर्वजगजन्तुषु कृपावत्तां किमिति प्रश्ने स्तुवे श्लाधाविषयं नयामि । उताथ वा वो युष्माकं स्वाचरणे निजाचारविधिमार्गपालने प्रवीणतां नैपुण्य सुशिक्षिततां किं स्तुवे प्रशंसामि । पुनरहं पयोदद्वार्षिकधनाधन इव परोपकारितां परेषां निःशेषालघुलघुप्राणिनामुपकर्तृत्व' स्तुवे कवयामि । वाथ वा भवतां शुचेः पवित्रस्य विशुद्धस्य वा पथेो मार्गस्य सद्धर्माचरणस्य वा निरूपकमुपदेष्टारं कथयितार वा स्तुवे स्तुतिविषयीकरोमि । कां कां स्तुवे श्लाघे, सर्वमपि प्रशंसापरमास्पदमिति ॥