________________
सर्ग १४ श्लो० ११-१३]
हीरसौभाग्यम्
४६७
શ્લોકાર્થ અહે! સૂરિજી હું આપની વિશ્વલાઘનીય કૃપાલુતા, પિતાના આચારની નિપુણતા, મેઘ જેવી પોકારિતા અથવા સન્માર્ગદશક્તા આદિ સદ્ગુણેની શું શું સ્તુતિ ४२!॥११॥
जगत्यसाधारणता व्यतकि वः क्षणादनेनाचरणेन शासने । सुधाभुजां भूमिरुहीव कामितप्रदातृभावेन मुमुक्षुपुंगबाः ॥ १२ ॥
- हे मुमुक्षुपुंगवाः सूरीश्वराः, अनेन समग्रजगजन्तुजातपालनलक्षणेन आचरणेन सदाचरणविधानेन कृत्वा क्षणादल्पकालात्तत्कालमेव मया वो युष्माकशासने जैनदर्शने जगति विश्वे असाधारणता सर्वेभ्योऽद्वैतता एतावता पञ्चभ्यो दर्शनेभ्यो युष्माक जैनशासनमसाधा. रणमेवेति व्यतर्कि मया विचारितम् । ज्ञातिमित्यर्थः। कस्मिन्निव । भूभिरुहीव । यथा कामितानामहिकाशेषमनोभिलषितानां प्रकर्षेण दातृभावेन दायकत्वेन सुधाभुजाममृताशनानां पादपे असाधारणता वितळते, एतावता यथा सर्ववृक्षजातिभ्यः कल्पद्रुमा विशेषास्तथान्यशासनेभ्यः श्रीमच्छासनमिति ॥ इति सूरीन्द्रकृपालुताजैनशासनयोः प्रशंसा ॥
પ્લેકાર્થ
હે સૂરીન્દ્ર, સર્વવૃક્ષની જાતિમાં ઈષ્ટફલની પૂર્તિ વડે જેમ કલ્પવૃક્ષની અસાધારણતા છે તેમ આપના સત્ આચરણ વડે જગતમાં જિનશાસનની અદ્વિતીયતા છે. | ૧૨ છે
कथीपकस्यास्तरणं ततः करद्वयेन दुरीकृतवान्स्वयं नृपः। मुनीन्द्रसङ्गादिव पापमात्मनः प्रभुः पुनाति स्म पुनः स तां क्षितिम् ॥ १३॥
ततः प्रभुकृपालुतावगमनप्रणीतप्रशंसानन्तर नृपोऽकब्बरः स्वयं तत्रान्यसेवकाभावादा. स्मनैव करद्वयेन पाणिपद्मद्वन्द्वेन कथीपक इति नाम्नः परदेशोत्पन्नजातिविशेषपट्टसूत्रमयवनस्यास्तरणं दुलीचकापराभिधान दूरीकृतवानपसारयति स्म । पश्चात्कृत इत्यर्थः । पृथक्चक्रे । उत्प्रेक्ष्यते-मुनीन्द्रस्य हीरमूरेः सङ्गादात्मनः स्वस्य पापमिव दूरीचकार । तस्य दूरीकरणात्प्रभुः सरिस्तामास्तरणरहितां क्षिति पुनाति स्म पवित्रयामासिवान् । उर्ध्व धरामाश्रोहेत्यर्थः । चित्रशालिकात्रिसापानभूमौ चढित इत्यर्थः ॥
સૂરીશ્વરજીના સંગથી પિતાના પાપને જાણે દૂર કર્યા ન હોય તેમ રાજાએ સ્વયં પિતાના હાથે જ ગાલીચાને દૂર કર્યો ! ત્યાર પછી આચાર્ય મહારાજે તે સોપાનભૂમિ પર પદાર્પણ કર્યું. ૧૩