________________
Poes.maran
४६८
हीरसौभाग्यम्
[सर्ग १४ श्लो० १४-१६
धरेशधामाधरिताद्रिसूदनोपदीकृतास्थामिव चित्रशालिकाम् । विभूषयांचक्रतुरुर्वरावरानगाररात्रीरमणौ क्रमेण तौ ॥ १४ ॥ उर्वरायाः सर्वसस्याया भूमेः वरः स्वामी धनधान्यमणिप्रसवित्र्या धरित्र्याः पतिः । यदुक्तम्-'शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् । सुवर्णपुष्पां पृथिवीं चिन्वन्तु पुरुषास्त्रयः ॥' इति । तथा रघुवंशेऽपि-'क्षितिरिन्दुमतीच भामिनी पतिमासाद्य तमग्यपौरुषम् । प्रथमा बहुरत्नसूरभूदपरा वारमजीजनत्सुतम् ॥' इति । तथा अनगररात्रीरमणः श्रमणचन्द्रः सूरिस्तौ क्रमेण चित्रशालिकां विभूषयांचक्रतुः अलंकुर्वाते स्म । उत्प्रेक्ष्यते-धरेशेन भूमिपतिना धाम्ना तेजसा बलेन वा अधरीकृतेन हीनीकृतेन । अभिभूयेति शेषः। अद्रिसूदनेन मघोना उपदीकृतां ढौकितामास्थां स्वीयां सौधर्मी सभामिव ॥
શ્લેકાર્થ
રાજાના તેજથી પરાભવ પામેલા ઇન્દ્રએ ભેટારૂપે કરેલી જાણે સુધર્માસભા ન હોય તેવી ચિત્રશાલાને રાજા અને સુરીશ્વરે પદાર્પણ વડે અલંકૃત કરી. ૧૪
अवग्रहं प्राप्य महीहिमांशोनिषेदुषस्तत्र यतिक्षितिक्षितः । जलालदीनोऽपि पुरोऽभजद्रुवं सुहस्तिनः संप्रतिभूगभस्तिवत् ॥ १५ ॥
जलालदीना यवनमुग्दलप्रसिद्ध मिदं विशेषनाम साहिरपि यतिक्षितिक्षितः सूरिराजस्य। 'महीक्षित्पार्थिवा मूर्धाभिषिक्तो भूप्रजानृपः' इति हैम्याम् । पुरोऽग्रेतनां भुवं क्षोणी अम: जत् बभाज। भूमावेवोपविष्टो नासने । सूरेः किं चक्रुषः किंलक्षणस्य वा । निषेदुषः उपवि.
स्य। किं कृत्वा। महीहिमत्विषो भूमीसोमस्य अवपहमुपवेशनार्थमादेश प्राप्याधिगत्य। किंवत् । संप्रतिभूगभस्तिवत् । यथा संप्रतेरनुज्ञामवाप्य निषण्णस्य सुहस्तिसरेः पुरस्तात्सं. प्रतिनामा भूगभस्तिर्भूमीभास्वान् उपविशति स्म । 'मध्यंदिनावधि विधेर्वसुधाधिवस्वान' इति नैषधे ॥ इति चित्रशालिकायामागत्य सूरिनृपावुपविष्टौ ॥
अथ धर्मकथारम्भः
બ્લેકાર્થ
સમ્રાટ સંપ્રતિની અનુજ્ઞા પામીને બેઠેલા આર્ય સુહસ્તિસૂરિજીની સામે જેમ રાજા સંપ્રતિ બેઠા હતા તેમ બાદશાહની અનુજ્ઞા પામીને બેઠેલા શ્રીહીરવિજયસૂરિજીની સામે જમીન ઉપર અકબર બાદશાહ બેઠા. ૧૫ .
स धर्मकिर्मीरितसंकथास्वथो मिथः प्रवृत्तासु तमित्यचीकथत् । धराविधो बीजमिवावनीरुहां वृषोऽस्त्युपादानमशेषसंपदाम् ॥ १६ ॥