________________
सर्ग १४ श्लो० १६-१८]
हीरसौभाग्यम्
४६९
अथो चित्रशालायां द्वयोरुपवेशानन्तरं स सूरिस्तमकब्बरसाहिमित्यमुना प्रकारेणाचीकथत् कथयति स्म । कासु सतीषु । धर्मेण पुण्यप्रकाशनेन किर्मीरितासु मिश्रासु संकथासु वार्तासु मिथः सरिभूपयोः परस्पर प्रवृत्तासु प्रारब्धासु । इति किम् । हे धराविधी पृथिव्याः निष्कलङ्क चन्द्र हे साहे, अशेषाणां सर्वासामपि संपदां लक्ष्मीणामुपादान मूलकारणं वृषो धर्म एवास्ते विद्यते । किमिव । बीजमिव । यथा अवनीरूहाणां वृक्षाणामुपादान तत्तज्जातिजं बीजं योनेर्निबन्धनम् ॥
શ્લેકાર્થ
બાદશાહની સાથે પરસ્પર ધર્મગોષ્ઠીને કરતા આચાર્ય મહારાજે કહ્યું: હે રાજેન્દ્ર, જેમ વૃક્ષોનું ઉપાદાનકારણ બીજ છે તેમ સર્વ સંપત્તિનું ઉપાદાનકારણ ધર્મ જ છે. ૧૬
अनक्षिलक्ष्यापि यथानुमीयते पयोदवृष्टिस्तटिनीपयःप्लवैः। विचक्षणश्चेतसि तक्यते तथा विभूतिभिः प्राक्सुकृतं पचेलिमम् ।। १७ ॥
हे साहे, यथा येन प्रकारेण तटिन्या नद्या पयःपवैः पानीयपूरैः । आगतैरित्यध्या. हारः। अनक्षिलक्ष्या लक्षितु द्रष्टुं योग्या लक्ष्या । 'लक्ष दर्शनाङ्कनयोः' इत्यस्य धातोःप्रयोगः। अक्षणार्लक्ष्या अक्षिलक्ष्या, न अक्षिलक्ष्या अनक्षिलक्ष्या अदृग्गोचरा । अदृष्टापीत्यर्थः । पयोदानां घनानां वृष्टिविचक्षणनिपुणैरनुमीयते अनुमानविषयीक्रियते, तथा तेनैव प्रकारेण पण्डितैविभूतिभिर्विभवैः कृत्वा अदृष्टिविषयीकृतमपि पचेलिम परिपाक प्राप्योदयमागतं प्राक्सुकृतं पूर्वजन्मोपार्जितं पुण्यं तय॑ते विचार्यते विज्ञायते वा ॥
શ્લોકાથ જેમ નદીના પૂર વડે અદશ્ય એવી પણ મેઘવૃષ્ટિનું અનુમાન કરાય છે તેમ પંડિત પર વડે વૈભવના દર્શનથી પૂર્વજન્મ પાર્જિત પુણ્યની પરિપકવતાનું અનુમાન १२शय छे. ॥ १७ ॥
अम भोगाम्बुधिशंबरीयतां धरेश धर्मेण विना जनुष्मताम् । अपार्थतामुद्बहते परं जनुर्विना फलौधैरबकेशिनामिव ॥ १८ ॥
हे धरेश क्षितिपते, धर्मेण सुकृताचरणेन विना जनुष्मतां प्राणिनां परं केवलं जनुर्जन्म अपार्थतां निरर्थकत्वम् अपगतोऽर्थः धर्मप्रयोजनं यस्य । यदुक्तम्-'जे जिणधम्मबाहिरा ते जाणे वाचारि । उग्या उरहिंष्ययगया संसारिया संसारि ॥' इति । तस्य भावस्तत्ताम् । 'अर्थों हेतौ प्रयोजने । निवृतौ विषये वाच्ये प्रकारे द्रव्यवस्तुषु ॥' इत्यनेकार्थः । एवोहहते