________________
४७०
हीरसौभाग्यम्
[सर्ग १४ श्लो० १८-२०
बिभर्ति । तथा 'यस्य युधिष्ठिर इव न क्वचिदपार्थों वचनक्रमः' इति चम्पूकथायाम् । जनुष्मतां किमाचरताम् । अभङ्गा अनवच्छिन्नाः सततप्रवृत्ता ये भोगा विभववनिताराज्यादिसुखास्वादास्त एवाम्बुधिः समुद्रः तत्र शंबरीयतां मीनानामिवाचरताम् । 'शंबरो दानवान्तरे । मत्स्यैणगिरिभेदेषु' इत्यनेकार्थः । तथा 'शंबरोऽनिमिषस्तिमिः । मत्स्योऽ. वमीनः' इति हैम्याम् ॥
બ્લેકાર્થ
- હે રાજન, સતત ભાગરૂપી સમુદ્રમાં મીનરૂપે બનેલા (આસકત) ધર્મવિહેણું જીનું જીવન કેશુડાનાં પુષ્પોની જેમ નિરર્થક છે. જે ૧૮ છે
कुरङ्गनाभीमपहाय भूषितुं स्ववमं गृह्णाति निपद्वरं करे। निकृत्य गेहोपवने प्ररोपितं सिताभ्रसालं वपतेऽर्कपादपम् ॥ १९ ॥ अपास्य पीपरसं जिजीविषु, खादहीन्दोः स्वदते गरं पुनः । विमुच्य धर्म नृप सार्वकामिकं विमुग्धधीर्यों विषयेऽनुरज्यते ॥ २० ॥
हे नृप, सर्वानैहिकामुष्मिकान कामानभिलाषान् करोति पूरयतीति सार्वकामिकस्तम् । 'ऋतुं विधते यदि सार्वकामिकम्' इति नैषधे । तादृशं धर्म विमुच्य त्यक्त्वा यो विशेषेण मुग्धा कृपा कृत्येष्वनभिज्ञा कार्याकार्यविचारविकला धीर्बुद्धिर्यस्यासावज्ञानो विषये भोगसुखादावनुरज्यते अनुरक्तीभवति, स पुमान् कुरङ्गनाभी कस्तूरिकाम् । मृगमदव पिनाभिशब्दो इस्वो दीर्घोऽपि 'मृगनाभिमृगमदः' इत्यत्र हैम्यां ह्रस्वः । तथा 'गोरोधनाचन्दनकुङ्कमैणनाभीविलेपात्पुनरुक्तयन्ती' इति नैषधे दीर्घोऽपि । अपहाय मुक्त्वा स्ववर्म निजशरीरं मुखस्तनाद्यवयवं स्त्रीमधिकृत्य पुनरर्थे केवलं वपुरेव भूषितुं विलेप. नादिना भाले तिलकादिना वा शोभां नेतुम् । यथा 'शोभन्ते स्थितिसौष्ठवेन कतिचिस्क. स्तूरिकाम्, 'नेपालक्षितिपालभालफलके पङ्कन शङ्कत कः' इति सूक्तपदद्वयी। निषदरं पङ्क कचवरक करे हस्ते गृण्हाति । पुनः गेहस्य स्वमन्दिरस्योपवने समीपवाटिकायां गृहारामे पा प्ररोपितं स्वयं पृथक् मनोरथैरुप्त सिताभसालं कर्पूरपादपम् । 'छित्त्वा कपरखण्डान्वृति. मिह कुरुते कोद्रवाणां समन्तात्' इति सिन्दूरप्रकरे । निकृत्य छित्त्वा । 'कृती छेदने' अय धातुः । अर्कपादपम् 'आकडा' इति लोकप्रसिद्धं नामेति अर्कवृक्षम् । 'अर्काः किं फलसंचयेन भवतां किं वा प्रसूनर्नवैः' इत्यपि सूक्तम् । वपते प्ररोपयति । वपधातुरुभयपदी पुनः स पीयूषरसं तुष्टसुरदत्ताजरामरकृदमृतं संत्यज्य दूरे क्षिप्त्वा जीवितुमिच्छुजिजीविषुः सन् अहीन्दोः विषभाससहस्रभाजः शेषनागराजस्य । 'विषभारसहस्त्रेण वासुकिनैव गर्वितः । वृश्चिको विषमात्रेण स्वोर्ध्व वहति कण्टकम् ॥' इति सूक्तम् । मुखाद्वदनाग्दरं गरलं स्वदते पिबति । 'संगरं गरमिवाकलयन्ति' इति नैषधे ॥ युग्मम् ॥