Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 19
________________ Poes.maran ४६८ हीरसौभाग्यम् [सर्ग १४ श्लो० १४-१६ धरेशधामाधरिताद्रिसूदनोपदीकृतास्थामिव चित्रशालिकाम् । विभूषयांचक्रतुरुर्वरावरानगाररात्रीरमणौ क्रमेण तौ ॥ १४ ॥ उर्वरायाः सर्वसस्याया भूमेः वरः स्वामी धनधान्यमणिप्रसवित्र्या धरित्र्याः पतिः । यदुक्तम्-'शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् । सुवर्णपुष्पां पृथिवीं चिन्वन्तु पुरुषास्त्रयः ॥' इति । तथा रघुवंशेऽपि-'क्षितिरिन्दुमतीच भामिनी पतिमासाद्य तमग्यपौरुषम् । प्रथमा बहुरत्नसूरभूदपरा वारमजीजनत्सुतम् ॥' इति । तथा अनगररात्रीरमणः श्रमणचन्द्रः सूरिस्तौ क्रमेण चित्रशालिकां विभूषयांचक्रतुः अलंकुर्वाते स्म । उत्प्रेक्ष्यते-धरेशेन भूमिपतिना धाम्ना तेजसा बलेन वा अधरीकृतेन हीनीकृतेन । अभिभूयेति शेषः। अद्रिसूदनेन मघोना उपदीकृतां ढौकितामास्थां स्वीयां सौधर्मी सभामिव ॥ શ્લેકાર્થ રાજાના તેજથી પરાભવ પામેલા ઇન્દ્રએ ભેટારૂપે કરેલી જાણે સુધર્માસભા ન હોય તેવી ચિત્રશાલાને રાજા અને સુરીશ્વરે પદાર્પણ વડે અલંકૃત કરી. ૧૪ अवग्रहं प्राप्य महीहिमांशोनिषेदुषस्तत्र यतिक्षितिक्षितः । जलालदीनोऽपि पुरोऽभजद्रुवं सुहस्तिनः संप्रतिभूगभस्तिवत् ॥ १५ ॥ जलालदीना यवनमुग्दलप्रसिद्ध मिदं विशेषनाम साहिरपि यतिक्षितिक्षितः सूरिराजस्य। 'महीक्षित्पार्थिवा मूर्धाभिषिक्तो भूप्रजानृपः' इति हैम्याम् । पुरोऽग्रेतनां भुवं क्षोणी अम: जत् बभाज। भूमावेवोपविष्टो नासने । सूरेः किं चक्रुषः किंलक्षणस्य वा । निषेदुषः उपवि. स्य। किं कृत्वा। महीहिमत्विषो भूमीसोमस्य अवपहमुपवेशनार्थमादेश प्राप्याधिगत्य। किंवत् । संप्रतिभूगभस्तिवत् । यथा संप्रतेरनुज्ञामवाप्य निषण्णस्य सुहस्तिसरेः पुरस्तात्सं. प्रतिनामा भूगभस्तिर्भूमीभास्वान् उपविशति स्म । 'मध्यंदिनावधि विधेर्वसुधाधिवस्वान' इति नैषधे ॥ इति चित्रशालिकायामागत्य सूरिनृपावुपविष्टौ ॥ अथ धर्मकथारम्भः બ્લેકાર્થ સમ્રાટ સંપ્રતિની અનુજ્ઞા પામીને બેઠેલા આર્ય સુહસ્તિસૂરિજીની સામે જેમ રાજા સંપ્રતિ બેઠા હતા તેમ બાદશાહની અનુજ્ઞા પામીને બેઠેલા શ્રીહીરવિજયસૂરિજીની સામે જમીન ઉપર અકબર બાદશાહ બેઠા. ૧૫ . स धर्मकिर्मीरितसंकथास्वथो मिथः प्रवृत्तासु तमित्यचीकथत् । धराविधो बीजमिवावनीरुहां वृषोऽस्त्युपादानमशेषसंपदाम् ॥ १६ ॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 444