________________
सामान्यरूपश्च नैगमान्तर्भावी, व्यवहारश्च स्थूलविशेषग्राही लोकव्यवहरणशीलश्चायम्, तथा चाह-लोको बाहुल्येन षट्स्वेव जीवनिकायेषु हिंसामिच्छतीति, ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवे जीवे हिंसां व्यतिरिक्तामिच्छतीति, शब्दसमभिरूढैवंभूताश्च नया आत्मैवाहिंसा आत्मैव हिंसेति, एतदभिप्रायेणैवाह-'आया चेव' इत्यादि, आत्मैवाहिंसा आत्मैव हिंसा इत्ययं निश्चयनयाभिप्रायः, कुतः ? यो भावतोऽप्रमत्तो जीवः स खल्वहिंसकः, इतरश्च प्रमत्तः, ततश्च स एव हिंसको भवति, तस्मादात्मैवाहिंसा आत्मैव हिंसा अयं निश्चय:-परमार्थ इति । (ओघनिर्यु०-गा०७५५) 10/1
[38] अच्चेइ जाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियटृति, तक्का जत्थ न विज्जइ, मई तत्थ न गाहिया, ओए, अप्पइटाणस्स खेयन्ने, से न दीहे न हस्से न वट्टे न तंसे नं चरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिहे न सुकिल्ले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मए न गरुए न लहुए न उण्हे न निद्धे न लुक्खे (न सिए)न काऊ न रुहे न संगे न इत्थी न पुरिसे न अनहा परिन्ने सन्ने उवमा न विज्जए, अरूवी सत्ता अपयस्स पयं नत्थि, (सू० १७०)
'अत्येति' अतिक्रामति जातिश्च मरणं च जातिमरणं तस्य 'वट्टमग्गं'ति पन्थानं मार्गमुपादानं कर्मेतियावत्, तदत्येति-अशेषकर्मक्षयं विधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधम्-अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसंयमानुष्ठानार्थत्वेन व्याख्यातो मोक्ष:-अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरतः, आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते । किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दैरभिधीयेत इत्येतत्प्रतिपादयितुमाह-'सर्वे-' निरवशेषाः 'स्वरा'ध्वनयस्तस्मान्निवर्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि-शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेष सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन् न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति । न केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तर्क:-एवमेवं चैतत्स्यात्, स च यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् ? । किमिति तत्र तर्काभाव इति चेदाह-मननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात्, तत्र च मोक्षे कर्मांशसमन्वितस्य गमनमाहोश्विन्निष्कर्मणः?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org