Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak,
Publisher: Vijaybhadra Charitable Trust Bhiladi
View full book text
________________
१६४
बहवो द्रव्यार्थपर्यायार्थयोवृत्तिभेदाः सर्वेऽपि तस्यांशाः, तैर्द्रव्यपर्यायरूपैर्वक्तुमिष्यमाणो नानारूप आत्मोच्यते । भावना तु स्यादस्ति च नास्ति च, द्रघ्यार्थभेदेन चैतन्यसामान्येनास्ति, चैतन्यविशेषविवक्षायां वाऽस्त्येकोपयोगत्वात्, पर्यायतस्तु अचैतन्येन नास्ति, घटोपयोगकाले वा पटाधुपयोगेनासन्, चैतन्येन तद्विशेषेण वा वर्तमान एव तदभावेन तद्विशेषाभावेन वर्तते इत्युभयाधीनस्तस्यात्मा, अन्यथाऽऽत्माभाव एव स्यात् । एवं सर्वसिद्धान्तेषु पदार्थाः परस्पर-विरुद्धार्थत्वात् तदतद्रूपसमुच्चयात्मकाश्चतुर्थविकल्पोदाहरणीयाः ॥
__ पञ्चमविकल्पस्तु स्यादस्ति चावक्तव्यश्चात्मेति, तत्रानेकद्रव्यपर्यायात्मकस्य सतः कञ्चिद् द्रव्यार्थविशेषमाश्रित्यास्तीत्यात्मनो व्यपदेशः, तस्यैवान्यात्मद्रव्यसामान्यं तद्विशेष द्वयं वाऽङ्गीकृत्य युगपद्विवक्षायामवक्तव्यता, स्फुटतरमेतद् विभाव्यते, स्यादस्त्यात्मा द्रव्यत्वेन द्रव्यविशेषेण वा जीवत्वेन मनुष्यत्वादिना वा द्रव्यपर्यायसामान्यमुरीकृत्य, वस्तुत्वावस्तुत्वसत्त्वासत्त्वादिना विशेषेण वा मनुष्यत्वामनुष्यत्वादिना युगपदभेदविवक्षायामवाच्यः, यतः सर्वेऽपि तस्यैकस्यात्मनस्तदैव विकल्पाः सम्भवन्तीति ॥
षष्ठविकल्पोऽपि त्रिभिरात्मभिव्य शः स्यान्नास्ति चावक्तव्यश्चात्मेति, नान्तरेणात्मभेदं वस्तुगतं नास्तित्वमवक्तव्यरूपानुविद्धं शक्यं कल्पयितुं वस्तुनः, तथापि सद्भावात् तत्र नास्तित्वं पर्यायाश्रयम्, स च पर्यायो युगपवृत्तः क्रमप्रवृत्तो वा, सहावस्थाय्यविरोधादात्मनो धर्म एककाल एव, यथा चेतनोपयोगवेदनाहर्षसम्यक्त्वहास्यरतिपुरुषवेदायुर्गतिजात्यादिसत्त्वद्रव्यत्वामूर्तत्वकर्तृत्वभोक्तृत्वान्यत्वानादित्वासङ्ख्यातप्रदेशत्वनित्यत्वादिः, क्रमवर्ती तु क्रोधादिदेवत्वादिबालत्वादिज्ञानितादिः स्वस्थानेऽनेकभेदवृत्तः, तत्रैकोऽवस्थितो द्रव्यार्थी जीवनामा नैवास्ति कश्चिच्चेतनाव्यतिरिक्तः क्रोधादिक्रमवृत्तधर्मरूपनैरन्तर्यमात्रव्यतिरिक्तो वा, अत एव तु धर्मास्तथासन्निविष्टाः सत्त्वव्यपदेश-व्यवहारभाजो भवन्तीति, अतो नास्ति पर्यायादेवंविधो द्रव्यार्थस्य कश्चिदंशो नास्तीति तेन रूपेणाभावात्, न पुनः सर्वथैव नास्तित्वम्, विशिष्टस्याभावस्य विवक्षितत्वात्, पर्यायांशः सर्वार्थज्ञातृत्वासत्सर्वव्यापारविनियोगात् सर्ववस्तुत्वेन सन्निति द्रव्यार्थांशः, आभ्यां सह विवक्षायामवाच्य इति द्वितीयोऽशः ॥ .. अधुना सप्तमविकल्पश्चतुभिरंशैस्त्र्यंशः । कञ्चिद् द्रव्यार्थविशेषमाश्रित्यास्तित्वं पर्यायविशेषं च कञ्चिदङ्गीकृत्य नास्तित्वं समुच्चितरूपं भवति, द्वयोरपि प्राधान्येन विवक्षितत्वात्, य(त)था द्रव्यसामान्येन पर्यायसामान्येन च युगपदवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चात्मेति । भावना तु द्रव्यार्थात् सति द्रव्यत्वे देहेन्द्रियादिव्यतिरिक्तात्मत्वेन विशेषेण नास्तित्वमतोऽस्ति च नास्ति च स एवात्मा, द्रव्यपर्यायसामान्यसदसत्त्वाभ्यां युगपदवाच्य इति । एवमर्थानुरोधाद् विवक्षावशाच्च सप्तधैव वचनप्रवृत्तिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506