Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, 
Publisher: Vijaybhadra Charitable Trust Bhiladi

View full book text
Previous | Next

Page 453
________________ १६२ चासावुभयपर्यायश्च तदुभयपर्यायस्तदुभयपर्यायनिमित्तस्तद्विषयो वाऽप्यादेशस्तेनार्पित मात्मतत्त्वमस्ति नास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यम्, ताभ्यामुभयपर्यायाभ्यामादिष्टं युगपदात्मरूपं द्रव्यं वेत्यादि विकल्प्यते, न वाच्यं सदित्यसदिति वा सद् द्रव्यमसद् वा द्रव्यं न वक्तव्यम्, क्रमेण त्वादेशे भवत्येतदेवम्, सहभावार्पणायां तु न सच्छब्दवाच्यं नासच्छब्दाभिधेयम्, एकस्मिन् काले तादृग्विधवाचकशब्दाभावात् ॥ ननु च तदुभयपर्याये वेत्येकवचनमुपपन्नम्, एकपर्यायविवक्षायामवक्तव्याभावात् । अत्रोच्यते-उभयग्रहणाद् द्वयमत्र गृह्यते । एवं तर्हि तदुभयपर्याययोर्वेत्यस्मादविशेषः, नैतदेवम्, यतस्तदुभयपर्याये विशेषविवक्षयाऽस्तित्वं हि स्वपर्यायविषयं परपर्यायविषयं चेत्युभयपर्यायस्तत् तु स्वपर्यायेणावच्छिद्यमानमिहास्तीति गृह्यते, तदेव च परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यमिदानीमुभयपर्यायो युगपदर्पणायां भवत्यवक्तव्यः, इतरत्र तु प्रधानभेदव्याख्यायां द्विवचनादिनिर्देश: समीचीनः, जातिविवक्षायां वा जातेरेकत्वादेकवचनसिद्धिरिति ॥ एवमेते त्रयः सकलादेशा भाष्येणैव विभाविता: सङ्ग्रहव्यवहारानुसारिण आत्मद्रव्ये, सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकार: - भा० - देशादेशेन विकल्पयितव्यमिति । टी० - इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः । पर्यायास्तिकमिति नपुंसकलिङ्गप्रक्रान्तेर्विकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति ? । अयमभिप्रायो भाष्यकारस्य लक्ष्यतेसकलादेशसंयोगाच्चतुर्णां निष्पत्तिरिति सुज्ञानाः, तत्राद्यद्वितीयविकल्पसंयोगे तुर्यविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चेति । प्रथमतृतीयविकल्पसंयोगे पञ्चमविकल्पनिष्पत्तिः स्यादस्ति चावक्तव्यश्चेति । द्वितीयतृतीयविकल्पसंयोगे षष्ठविकल्पनिष्पत्तिः स्यान्नास्ति चावक्तव्यश्चेति । प्रथमद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चावक्तव्यश्चेति । तत्राद्येषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकल्पीकृतं खण्डश आदिश्यते । तदाहदेशादेशेनेत्यादि । सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन देशादेशेन विकल्पनीयं व्याख्येयम्, आत्मादितत्त्वमित्येवं विकल्पचतुष्टयस्यापि ग्रहणम् । तत्र चतुर्थ उभयप्रधानो विकल्पः क्रमेणोभयस्यापिशब्देनाभिधेयत्वात्, देशादेशो हि विकलादेशस्तस्य वस्तुनो वैकल्यम्, स्वेन तत्त्वेनाप्रविभक्तस्यापि विविक्तं गुणरूपं स्वरूपेणोपरञ्जकमपेक्ष्य प्रतिकल्पितमंशभेदं कृत्वाऽनेकान्तात्मकैकत्वव्यवस्थायां नरसिंहनरसिंहत्ववत् समुदायात्मकमात्मरूप Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506