Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, 
Publisher: Vijaybhadra Charitable Trust Bhiladi

View full book text
Previous | Next

Page 431
________________ १४० टी०-अपरेऽन्यथाकारं सूत्रसम्बन्धमभिदधते, ध्रौव्यस्य नित्यपर्यायत्वेन लक्षणमुक्तमुत्पादव्यययोरुच्यताम्, नोच्यते, तयोर्लोकप्रतीतत्वात्, सामर्थ्यगतेश्चासदनित्यत्वादीनाम्, अतस्तल्लक्षणं न साक्षाद् वाच्यम्, किं कारणम् ? भा०-अर्पितानर्पितसिद्धेः ॥ टी०-अर्पित-निदर्शितमुपात्तम्, तद्विपरीतमर्पितम्, सिद्धिः-ज्ञानम्, अर्पितेनानर्पितपरिज्ञानमर्पितानर्पितसिद्धिस्तस्याः-ततो हेतोरपितानर्पितसिद्धेः, विशेष्यं हि वस्तु नीलोत्पलादिवदुपादीयमानं नियमकारिविशेषणधर्मप्रत्यनीकपर्यायाश्रयतामनुभवत्येवेति न्यायात्, एवमिहापि ध्रौव्यलक्षणेऽपितेऽनर्पितावपि साक्षात् तद्विपरीतावुत्पादव्ययौ सङ्गस्येते, पूर्वमुत्तरं च पर्यायं ध्रौव्यमासादयति, न तूत्पादलक्षणः पर्यायो विनाशलक्षणो वा पूर्वोत्तरपर्यायानुभावी, तस्माद् विलक्षणावुत्पादव्ययाविति सुज्ञानम्, एवं सम्बन्धद्वयमभिधाय सूत्रार्थोऽभिधीयते, पूर्वकं सम्बन्धमाश्रित्येदं भाष्यम् भा०-सच्च त्रिविधमपि नित्यं चोभे अपि अर्पितानर्पितसिद्धेः ॥ टी०-चशब्दः समुच्चये, अपिः सम्भावने । सत् त्रिविधमुत्पादव्ययस्थितिलक्षणम्, नित्यं च द्वितीयसूत्रोक्तमुभयमप्येतदर्पणानपणाभ्यां सिद्धमव्याहतम् अनेकधर्माधर्मी, तत्र प्रयोजनवशात् कदाचित् कश्चिद् धर्मो वचनेनार्फाते-विवक्ष्यते, सन्नपि च कश्चिन्न विवक्ष्यते प्रयोजनाभावात्, न पुनः स धर्मी विवक्षितधर्ममात्र एव । इत्यतः सत्पर्यायविवक्षायां सदुत्पादादिस्थित्यंशविवक्षायां नित्यमसदप्युत्पादाद्यनित्यं च, सत्त्वासत्त्वविशिष्टग्रहणात् सर्वदा वस्तुनः येन प्रमाणेन यद् वस्तु सद्विशिष्टं गृह्यते, तेनैव प्रमाणेन तदेव तदैव वाऽसद्विशिष्टमपि गृह्यते, अन्यथा त्वविविक्तग्रहणमेव स्यात्, विविक्ताश्च चक्षुरादिबुद्धयोऽनुभूयन्ते । यथैव हि स्वास्तित्वात् सद्विशेषणोल्लेखेन सद्गुद्धिरभिधावति, एवं असद्विशेषणावष्टम्भजनिताऽपीति ॥ न चोपहतेन्द्रियस्याव्यापतेन्द्रियस्य वा वस्त्वन्तराभावविशिष्टं ग्रहणमुपजायते तत इन्द्रियव्यापारे सति भावादसद्विशिष्टस्य ग्रहणस्य नापह्नवो युज्यते, यथा प्रकाशकाः कृशानुभास्करादयः प्राकाश्यं वस्त्वन्तराभावविशिष्टमेव प्रकाशयन्ति, एवं प्रमाणमपि वस्तुपरिच्छेदहेतुत्वेन व्याप्रियमाणं वस्त्वन्तराभावविशिष्टमेव प्रकाशयति । प्रमाणं च यथावस्थितवस्तुस्वभावग्राहि । ततः प्रमाणपरिच्छिनेनार्थेन यथाप्रयोजनमर्पणादिव्यवहारः । तस्मात् सच्चासच्चैकमेव वस्तु, स्वरूपार्पणयोत्पादः सन् स्थितिविनाशाभावविशिष्टग्रहणादसन्, एवं स्थितिविनाशावपि वाच्यौ । एवं हि त्रिविधग्रहणं समर्थितं भवति ॥ तथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506