Book Title: Gyansara Gyanmanjarivrutti
Author(s): Yashovijay Upadhyay, Devvachak, 
Publisher: Vijaybhadra Charitable Trust Bhiladi

View full book text
Previous | Next

Page 442
________________ १५१ प्रतिपादयितुमुपक्रमते-यदि घटत इति घटः क्रियानिमित्तशब्दवाच्योऽभ्युपेतस्त्वया ततो यत् तन्निमित्तं सा किया यदैव वर्तमाना तदैव नैमित्तिकः शब्दो युक्तश्चित्रकारादिवत्, तस्माद् यदैव घटते-चेष्टते तदैव घटः, तनिमित्ताभावे पटादिवदेवासौ न घटः, न चातीतानागतनिमित्तसम्बन्धः, तयोरभावात्, न ह्यतीतं भावि वा छत्रदण्डादि छत्रिदण्ड्यादीनां निमित्तं युज्यते, यदि स्यात्, त्रैलोक्यस्य छत्रिदण्डित्वप्रसङ्गः, अतो घटमान एव घटः, क्रियाविशिष्टस्यैव घटता, ततश्च घटशब्देनापि नैवासौ सर्वदा वाच्य इति, एवमेष पर्यायनयः (सूक्ष्म-) सूक्ष्मतरभेदस्तावदाधावति यावज्ज्ञानमात्रमवशिष्यते शून्यता वा, न त्विह सकलकमभेदाख्यानं क्रियतेऽन्यत्र प्रपञ्चितत्वात् । एवमेतयोर्द्रव्यास्तिकपर्यायास्तिकयोर्वचनचतुष्टयोपात्तयोः परस्परापेक्षयोरर्पणानर्पणविशेषतः सम्भवद्भिर्विकल्पैर्भाष्यकृत् स्वयमेव सन्नित्यादिभेदभावनां करोति - भा०-एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असनाम 'नास्त्येव द्रव्यास्तिकस्य । टी०-एषामर्थपदानीत्यादि । एषां-द्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां चतुर्णाम् अर्थानि पदानि अर्थपदानि द्रव्यं वा द्रव्ये वा इत्यादीनि, द्रव्यास्तिकादीनां योऽर्थोऽभिधेयो वाच्यस्तत्प्रतिपादनप्रयोजनान्येकत्वादीनि युक्तानि द्रव्यादीनि, एभिर्हि द्रव्यास्तिकादीनि व्याख्यायन्ते विकल्पैस्तेषां चार्थाभिधानप्रत्ययभेदेन भिन्नानामन्तरङ्गाभिधानप्रत्ययपदापेक्षया बहुविधविद्वज्जनाभिमतबहिरङ्गार्थपदचिन्ता क्रियते, तिष्ठतां तावदभिधानप्रत्ययावित्यर्थपदमेव प्राक् प्रदर्श्यत इत्यर्थः । तत्र द्रव्यं भव्यं योग्यं स्वपर्यायपरिणतेः सर्वं धर्मादि भेदवाद्यभिमतमभिन्नलक्षणार्पणयैकत्वेन विवक्ष्यते द्रव्यमिति द्रव्यस्वभावात्यागात्, न च द्रव्यव्यतिरिक्तं गुणकर्मादि किञ्चिदस्ति, रूपरसादयस्तद्रव्यद्वारेणैवोपलब्धिमार्गमवतरन्तो द्रव्यवृत्तिमात्रत्वेनावधार्यन्ते, न भिन्नजातीयत्वेन, चक्षुरादिग्रहणभेदात् तु वृत्तयस्तास्तस्य भिद्यन्ते, पितृपुत्रमातुलत्वाद्यनेकसम्बन्धिसम्बन्धविशिष्टपुरुषवत्, अभिन्नस्यैकस्य जिनदत्तादेर्जन्यजनकाद्यनेकसम्बन्धापेक्षाः पित्रादिव्यपदेशाः प्रवर्तन्ते, न तु तस्मात् पुरुषवस्तुनोऽर्थान्तरभूतं पितृत्वं नामांर्थो जात्यन्तरमस्ति, पुरुषवृत्तिमात्रत्वात्, तथा द्रव्यमपि चक्षुर्ग्रहणादिविषयभूयमासादयद् रूपादिव्यपदेशमनेकमासादयति, अतोऽनर्थान्तरं रूपरसादयो द्रव्यादिति, कर्मापि विलसाप्रयोगसापेक्षो द्रव्यपरिणामस्तद्भावलक्षणो द्रव्यादव्यतिरिच्यमानो द्रव्यमेव, सामान्यविशेषयोरपि तदग्रहे तद्बुद्ध्यभावात् द्रव्यमात्रतैवेति, एवमेकमेव द्रव्यं शुद्धप्रकृतेर्द्रव्यार्थस्य । अविशुद्धद्रव्यार्थभेदनैगमस्त्वभिन्नद्रव्येण व्यवहाराभावाद् भेदनिबन्धनद्वित्वादिसङ्ख्याव्यवहारः सकललोकयात्राक्षमः सिद्ध्यतीति द्रव्ये वा द्रव्याणि वेत्याह, अन्यथैकसङ्ख्याऽपि न स्याद्, व्यवहारस्य वा शतभेदत्वात् Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506