Book Title: Dravyalankara Swopagna Tika Author(s): Jambuvijay Publisher: Jambuvijay View full book textPage 9
________________ Jainacarya-śri-Hemacandrasuri-mukhyaśisyābhyam... P. 107. तदुक्तं — “ तेनायं नियमार्थो दर्शितः — ज्ञेयोपलम्भो ज्ञानोपलम्भात्मक एव, नान्यथा । ज्ञानोपलम्भोऽपि ज्ञेयोपलम्भात्मक एवेति, अन्यथा स्वनिवर्तनम् " [ प्रमाणविनिश्चयटीका पृ० १८५ B] इति । 137 P. 110. एतेन यदुक्तम्- -" एतदुक्तं भवति - न भिन्नयोर्नियतः सहोपलम्भोऽन्योन्यसम्बन्धमन्तरेण । स च तादात्म्यनिमित्तस्तावत् स्वयमनभिप्रेतः । तदुत्पत्ताaf वह्निधूमयोखि सहोपलम्भव्यभिचारः । विषयविषयिभावलक्षणस्तु साकारपक्षे निराकृत एव । निराकारपक्षेऽप्युक्तम् " [ प्रमाणविनिश्चयटीका पृ० १८६ A ] इति, तत् प्रतिव्यृढम् । P. 110 तथा च—“ यद् येन नियतसहोपलम्भं तत् ततो न व्यतिरिच्यते, यथैकस्माच्चन्द्रमसो द्वितीयः, नियतसहोपलम्भश्व ज्ञानेन सह ग्राह्याकाशे नीलादिः [ प्रमाणविनिश्चयटीका पृ० १८९ B ] इत्यभिधाय उक्तं - " भेदः सहोपलम्भानियमेन व्याप्तः प्रतिबन्धाभावात् तस्य विरुद्धः सहोपलम्भनियमः, तेन व्यापक विरुद्धेन भेदो निराक्रियते " [ प्रमाणविनिश्चयटीका पृ० १८९ B - १९० A ] । ततो यदि ज्ञानार्थयोरभेदो न स्यात् तदा सहोपलम्भनियमोऽपि न स्यादिति । 19 P. 112. शङ्करनन्दनस्त्वाह– " सहसंवेदनं तावद् न सहावस्थानमतिवर्तते, सत्यपि हि संवेदने यदि नास्त्येव नीलं न किश्चित् संवेद्येत । तस्मात् सहसंवेदननियमेऽस्त्येव सहावस्थाननियमः । तदयमतादात्म्ये प्रकारान्तरेण वक्तव्यः । तच्च न हेतुफलभावः, वह्निशून्यस्यापि धूमस्य दर्शनात् । न च प्रकाश्यप्रकाशक मावः सर्वेषां स्वात्ममात्रपर्यवसितत्वेन तस्याघटनात् । न चाप्रतिबन्धे सम्भवति । न हि यद् यत्रानायत्तरूपं तस्य तेन सहावस्थाननियमो भवति । तस्मात् तादात्म्यादेवायं सहावस्थाननियमः । ततो यदि नाम ज्ञानस्य स्वसंविदिततयोत्पत्तेः तादात्म्याभावेऽपि सहोपलम्भनियमस्तथापि सहावस्थाननियमो न सिध्यति " ] इति । [ P. 120. यदाहुः — " पारमार्थिकमपि प्रमाणं न निर्हेतुकम् । न च भावनाव्यतिरिक्तो हेतुः । भावना च सांव्यवहारिकप्रमाणपरिच्छिन्नार्थविषया । ततश्च तत् सांव्यवहारिकं प्रमाणं सम्यग् निरूपितं पारमार्थिकज्ञानहेतुः सम्पद्यते । ततस्तद्विषयो यत्नः परमार्थविषय एव । मिथ्याज्ञानेन हि विषयीकृता भावा नित्यादिभिराकारैर्भाव्यमाना न पारमार्थिकज्ञाननिबन्धनं भवन्ति । अनित्यादिभिस्त्वाकारैर्भाव्यमाना निबन्धनं भवन्त्येव । तस्मादतो व्यामाहं व्यावर्त्य परमार्थनयेऽवतारयितव्यो जनः, स्थूलविषयत्वादस्य व्यामोहस्य । एतद्वयामोहनिवृत्तिपूर्विका च परमार्थप्राप्तिः " [ ] इति । 1 धर्मोत्तरे - टि० ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21