Book Title: Dravyalankara Swopagna Tika
Author(s): Jambuvijay
Publisher: Jambuvijay
View full book text
________________
144
M. Jambūvijaya
P. 86. लक्षणं चेदम्"जनकैराधेयातिशयस्य कार्यस्य समस्तविशेषकोडीकरणसमर्थ आत्मा यस्मादुत्पद्यते तदुपादानम् । यथा चक्षुरादिभ्यश्चक्षुर्विज्ञानस्य समस्तोपकारमयं बोधरूपत्वं समनन्तरप्रत्ययादुत्पन्नमिति तदुपादानम् " [ ] इति ।
P. 86. एवं चानेनाप्युपादानलक्षणेन न दोष:“ अवस्थाभेदेऽपि यदेकाकारपरामर्शप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रतिनिमित्तं तदुपादानकारणम् " [ हेतुबिन्दुटीका पृ० ९५] इति । ____P. 95. अर्चटस्त्वाह" व्यतिरिक्तमपि भावांशादभावांशमिच्छता भावांशः स्वभावेनासंकीर्णरूपः कल्पनीयः, अन्यथा स एव भावांशो न सिध्येत् । न च स्वभावेनासंकीर्णरूपतायामसत्यां पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातप्य संकीर्णरूपस्याकिश्चित्कराभावांशसम्भवेऽपि त्यागायोगात् । न च तेनैव तद्विनाशनम् , विनाशहेतोरयोगात् । तेन संकीर्णरूपविनाशने च वरं स्वहेतोरेव स्वभावतोऽसंकीर्णरूपाणामुदयोऽस्तु, किं परिव्रामोदकन्यायोपगमेन । तस्मात् स्वभाव एव भावानां पररूपविकलत्वादमावांशो नान्यः" [हेतुबिन्दुटीका पृ० २५-२६ ] इति ।
__P. 103. एतेन यदुक्तम्"विरोधिसनिर्दोषस्तजन्मा न भवेदपि। सति तस्मिस्तदात्मा तु नानिष्टोऽपि निवर्तते।" [ ] इति, तदपि प्रत्युक्तम् । P. 104. एतेन यदुक्तम्
" मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी। मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव ॥१॥ एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्त्वेऽस्मिन् ।
स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेह ॥२॥" [ ] इति । तदपि निरस्तम् ।
1 अस्य बौद्धग्रन्थादुद्धतत्वेऽस्माकं सन्देहः । अनेकान्तजयपताकायामपि उद्धृतमेतत् ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21