SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ 144 M. Jambūvijaya P. 86. लक्षणं चेदम्"जनकैराधेयातिशयस्य कार्यस्य समस्तविशेषकोडीकरणसमर्थ आत्मा यस्मादुत्पद्यते तदुपादानम् । यथा चक्षुरादिभ्यश्चक्षुर्विज्ञानस्य समस्तोपकारमयं बोधरूपत्वं समनन्तरप्रत्ययादुत्पन्नमिति तदुपादानम् " [ ] इति । P. 86. एवं चानेनाप्युपादानलक्षणेन न दोष:“ अवस्थाभेदेऽपि यदेकाकारपरामर्शप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रतिनिमित्तं तदुपादानकारणम् " [ हेतुबिन्दुटीका पृ० ९५] इति । ____P. 95. अर्चटस्त्वाह" व्यतिरिक्तमपि भावांशादभावांशमिच्छता भावांशः स्वभावेनासंकीर्णरूपः कल्पनीयः, अन्यथा स एव भावांशो न सिध्येत् । न च स्वभावेनासंकीर्णरूपतायामसत्यां पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातप्य संकीर्णरूपस्याकिश्चित्कराभावांशसम्भवेऽपि त्यागायोगात् । न च तेनैव तद्विनाशनम् , विनाशहेतोरयोगात् । तेन संकीर्णरूपविनाशने च वरं स्वहेतोरेव स्वभावतोऽसंकीर्णरूपाणामुदयोऽस्तु, किं परिव्रामोदकन्यायोपगमेन । तस्मात् स्वभाव एव भावानां पररूपविकलत्वादमावांशो नान्यः" [हेतुबिन्दुटीका पृ० २५-२६ ] इति । __P. 103. एतेन यदुक्तम्"विरोधिसनिर्दोषस्तजन्मा न भवेदपि। सति तस्मिस्तदात्मा तु नानिष्टोऽपि निवर्तते।" [ ] इति, तदपि प्रत्युक्तम् । P. 104. एतेन यदुक्तम् " मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी। मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव ॥१॥ एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्त्वेऽस्मिन् । स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेह ॥२॥" [ ] इति । तदपि निरस्तम् । 1 अस्य बौद्धग्रन्थादुद्धतत्वेऽस्माकं सन्देहः । अनेकान्तजयपताकायामपि उद्धृतमेतत् ॥
SR No.212319
Book TitleDravyalankara Swopagna Tika
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJambuvijay
Publication Year
Total Pages21
LanguageSanskrit, Hindi
ClassificationArticle & 0_not_categorized
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy