Book Title: Dravyalankara Swopagna Tika
Author(s): Jambuvijay
Publisher: Jambuvijay

View full book text
Previous | Next

Page 15
________________ Jainācārya-śrī-Hemacandrasuri-mukhyaśisyābhyām ... ततश्च यद्येकमपि क्षणं तिष्ठेत् कालान्तरापेक्षया निरपेक्षत्वं बाध्येत । तस्मात् क्षणमात्रावस्थानेऽपि सापेक्षत्वसम्भवाद् निरपेक्षत्वं विरुद्धोपलब्ध्या विपक्षाद् व्यावर्त्यते " [ प्रमाणविनिश्चयटीका पृ० २९० B - २९१ A] । P. 76. यदुक्तम् — 64 'न ध्रुवभावी भूतस्यापि भावस्य विनाशः हेत्वन्तरापेक्षणात् " [ 143 P. 77. तस्माद् धर्मकीर्ति - धर्मोत्तरयोरेवंपरमेव वचः, यथा“यो धर्मिणो धर्मों हेतुव्यतिरेकिणा हेत्वन्तरेण क्रियते स नावश्यम्भावी, यथा वाससि रागः, विनाशोऽपि यदि तथा स्यात् सोऽपि ध्रुवं न स्यादिति न व्यतिरिक्तहेतुकृतोऽसौ " [ ] इति । ] इति । P. 79. शङ्करनन्दनस्त्वाह " यथाविधोऽन्वयः तथैवावगमोऽवगच्छंस्तद्वद्यवस्थानिमित्तं स्यात्, अन्वयश्चाविनाशो नित्यत्वमनेककालसम्बद्धता वा अभिधीयते । न च तथा प्रत्यक्षेण ग्रहणं सम्भवति । एवं हि संभवेत्, यदि प्रत्यक्षं वस्तु गृह्णत् कालत्रयसम्बन्धितावभासं स्यात् तच्च नास्ति, इन्द्रियापेक्षितया प्रत्यक्षेण वर्तमानकालसहभावित्वमात्रस्थ ग्रहणात् । इन्द्रियस्य हि भूतभविष्यतोः सम्बन्धानईत्वात् । तदाह नामेदोऽपरं रूपं रूपात् कालद्वयानुगात् । तस्य नानुभवात् सिद्धिर्वर्तमानार्थ संश्रयात् ॥” ] इति । [ 46 P. 82. पुनरप्याह न रूपविशेषाविष्करणमन्तरेणास्ति प्रत्यक्षं किञ्चित् । ततः क आकारोऽन्वयस्यावभासत इति निवेद्यताम् " [ ] इति । - 44 • P. 82. ततो यदुच्यते - " तन्न प्रत्यक्षव्यापारेण नित्यताव्यवस्थापनम्, किन्तु प्रातिभज्ञानादेव [ ] इति तदपाक्रियत । P. 85. यदुक्तं हेतुविन्दौ - समनन्तरप्रत्ययाद् विज्ञानाच्चक्षुर्विज्ञानस्योपलम्भात्मता । तस्यैवोपलम्भात्मनः सतश्चक्षुरिन्द्रियाद् रूपगहणयोग्यताप्रतिनियमः । विषयात् तत्तुल्यरूपता । इत्यमित्वेऽपि वस्तुतः कार्यस्य कारणानां मिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्ति " [ हेतुबिन्दुः पृ० १०-११ ] इति । 1 शङ्करः - टि० ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21