Book Title: Dravyalankara Swopagna Tika
Author(s): Jambuvijay
Publisher: Jambuvijay

View full book text
Previous | Next

Page 13
________________ Jainācārya-Sri-Hemacandrasuri-mukhyaśisyabhyām... 141 P. 189. यदाह"प्रवृत्तिविषयस्य व्यवस्थापकं प्रमाणमिष्यते । तत्र सत्यपि बाह्येनार्थेन सबन्धे वाच्यभृतेन पदेभ्यो य: पदार्थप्रत्यय उत्पद्यते न तेन कश्चित् प्रवृत्तिविषय उपस्थापितो येन घटार्थी कुतश्चिद् निवृत्य क्वचित् प्रवर्तेत । तथाहि-देशविशेषसम्बद्धे वस्तुनि प्रवृत्तिविषये पुरुषः प्रवर्तितुमुत्सहते । न च केनचिद् देशेन विशिष्टो घटो घटशब्देनोपदर्शित इति कथं तस्मात् प्रवृत्तिः" [ ] इति । ____P. 190. यत् प्रमाणवार्तिकम्" तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः। ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः"॥ __ [प्रमाणवार्तिकम् ३ । २७] इति । P. 193. एतेन यदुक्तम्" स्वयं हि वस्तु क्वचिद् दृश्यमानं नान्तरीयकं वस्तु तत्रैव सन्निहितमुपदर्शयत् प्रवृत्यङ्गं कुर्यात् । शब्दस्तु यत्र पुरुषे दृश्यते न तत्र साध्यार्थोपसंहारः शक्य: कतुम् । यत्र च प्रदेशादौ घटो व्यवस्थितस्तत्र शब्दो न दृश्यते । तेन स्वदेशे शब्द: प्रतिपाद्यमर्थमनुपसंहरन प्रवृत्तिनिमित्तीकुर्यात् । तथा न कश्चित् प्रदेश प्रतिपाद्येनार्थेन विविक्तं दर्शयेत् यः परिहारात्मकप्रवृत्तिविषयः स्यात् " [ ] इति, तदपि निरस्तम् । अथ तृतीयः प्रकाश: P. 3. तदुक्तम् "क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया ।। भूतियैषां क्रिया सैव कारकं सैव चोच्यते ॥" [ ] इति । __P. 49. “ सक्रियस्य हि यदूपमक्रियस्य विरोधि तत् । ततः कार्यक्रियाकाले पूर्वरूपव्ययो ध्रुवः ॥" [ ] ____P. 61. यदुक्तं परेणयो हि यद्रूपो नोपलभ्यते न स तद्रूपः, यथा सुखं दुःखरूपेणानुपलभ्यमानं न तद्रूपम् , तथा च दधिरूपेण नोपलभ्यते क्षीरमिति न तद्रूपम् । सत्त्वं हि तादृशस्य दृश्यस्य उपलभ्यतया व्याप्तं तन्मात्रनिमित्तत्वादुपलम्भस्य । उपलभ्याभावाच्च व्याप्यस्यापि सवस्य निवृत्तिः । इतररूपोपलम्भश्च तद्रूपानुपलम्भः" [ ] इति, तदपि प्रत्युक्तम् । P62. तथेदमपि प्रत्युक्तम्'अथ केयं शक्तिः -“किं स एव भावः, उतान्यदेव किञ्चित् १ स एव चेत्, तथैवो1 अस्य बौद्धग्रन्यादुद्भुतत्वेऽस्माकं सन्देहः॥ 2 अस्य बौद्धग्रन्थादुद्धतत्वेऽस्माकं सन्देहः।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21