Book Title: Dravyalankara Swopagna Tika
Author(s): Jambuvijay
Publisher: Jambuvijay

View full book text
Previous | Next

Page 12
________________ 140 M. Jambūvijaya भेदे चोभयरूपैकवस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥ ५ ॥ विशेषरूपं यत् तेषु तत् प्रवृत्तेर्नियामकम् । साध्वेतत् किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते ॥ ६ ॥ " ] इति, तत् परसिद्धान्तरहस्यानवबोधबाधयैव प्रतिव्यूढम् । [ P. 173. तदुक्तम् — “ खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् ।" [ प्रमाणवार्तिकम् ३।६७ ] इति । P. 181. एतेन यदुक्तम् — 46 'शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः । तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न ।। " [ प्रमाणवार्तिकम् ३ । ९२ ] इति, तत् प्रत्युक्तम् । P. 184. तदुक्तम् —“ ते तु स्वालम्वनमेवार्थक्रियायोग्यं मन्यमाना दृश्य विकल्प्यावर्थावेकीकृत्य प्रवर्तन्ते " [ ] इति । ...व्यापकानुपलब्धिरपि प्रत्युक्ता या परैः शाब्द प्रत्ययस्य P. 187. एतेन - प्रामाण्यमपाकर्तुं प्रयुक्ता, यथा " प्रमेयरूपं हि परिच्छिन्नं वस्तु प्रापयत् प्रमाणमुक्तम् । प्रमेयं च विषयः प्रमाणस्येति विषयवत्तया प्रामाण्यं व्याप्तम् । ततो यद् विषयवद् न भवति न तत् प्रमाणं यथा व्योमोत्पलम्, प्रत्यक्षानुमानाभ्यामन्यश्च विज्ञानं न विषयवदिति व्यापकाभावः " [ प्रमाणविनिश्चयटीका पृ० १३ B] इति । सेयं परोक्ता व्यापकानुपलब्धिः प्रत्याख्याता । P. 188. यद् विनिश्चयः 66 अनुमानं द्विधा, स्वार्थं त्रिरूपा लिङ्गतोऽर्थदृक् । अतस्मिंस्तद्ग्रहाद् भ्रान्तिरपि सम्बन्धतः प्रमा । परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम् । ” [ प्रमाणविनिश्वयः पृ० २६५, २६६ B, २८५ A ] इति । P. 188. एतेन यदुक्तम् — 46 तथा विषयभेदाद् भिद्यते प्रमाणम् । यतो निमित्तत्वान् प्रमाणभेदः, निर्निमित्तत्वेऽतिप्रसङ्गात् । न चान्यद् निमित्तमुपपद्यते । विषयभेदश्चाश्रितः परेणापि प्रमाणानाम् । विषयापेक्षं च प्रमाणमप्रमाणं चेति विषयापेक्षेणैव तद्भेदेन भवितव्यम् । तस्माद् विषयभेदमात्रनिमित्तः प्रमाणभेदस्तद्भेदेन व्याप्तः । तेन यत् प्रत्यक्षानुमानार्थव्यतिरिक्त विषयं न भवति न तत् ताभ्यां भिन्नं प्रमाणं यथा ते एव प्रत्यक्षानुमाने प्रत्यक्षानुमानान्तराभ्याम्, यथा वा भ्रान्तिज्ञानम् । न भवति च प्रमाणं नाम प्रत्यक्षानुमानव्यतिरिक्तप्रमेयमिति व्यापकाभाव एव " [ प्रमाणविनिश्वयटीका पृ० १३B - १४A ] इति, तदपि निरस्तम् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21