Book Title: Dravyalankara Swopagna Tika
Author(s): Jambuvijay
Publisher: Jambuvijay
View full book text
________________
Jainācārya-Sri-Hemacandrasuri-mukhyasisyabhyam ...
139
P. 140. एतेन " यत् प्रत्यक्षं तमामिलापसंसर्गयोग्यप्रतिभासं यथा निर्विकल्पकम् । यदमिलापसंसर्गयोग्यप्रतिभासं न तत् प्रत्यक्षं यथा शाब्द-लैङ्गिकविकल्पो"
] इति प्रसङ्गविपर्ययो प्रत्याख्यातौ । _P. 144. तदुक्तम्- " अधिगते तु स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् स्मृतिरेव, न प्रमाणम् अनधिगतवस्तुरूपानधिगतेः [ हेतुबिन्दुः पृ० ३] इति । ___P. 144. भवद्भिरपि चोक्तम्- " एकस्मिन्नपि वा वस्तुनि घटादौ विकल्प्यमाने विकल्पप्रतिभासोऽनेकावस्थासाधारणः, प्रत्यक्षप्रतिभासस्तु असाधारणः। तस्मात् साधारणा साधारणविषयतया तयोमेंदः" [
] इति । P. 146. यत् प्रमाणवार्तिकम्
“सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । - स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिमागिनः ॥" [प्रमाणवार्तिकम् ३।४०]
P. 147. तदुक्तम्" एकप्रत्यवमर्थिज्ञानाद्येकार्थसाधने । भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ।। ज्वरादिशमने काचित् सह प्रत्येकमेव वा । दृष्टा यथा वौषधयो नानात्वेऽपि न चापराः॥"
[प्रमाणवार्तिकम् ३७३-७४ ] P. 149. एतदपि प्रत्युक्तम्" एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥"
[प्रमाणवार्तिकम् ३।१०९] P. 154. तदुक्तम्" इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका ।" [ प्रमाणवातिकम् ३।७२ ]
P. 170-171. एतेन परसिद्धान्तक्षणदानव्यसनिभिः यदुक्तम्"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्टुं नाभिधावति ॥१॥ अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते । स एव दधि सोन्यत्र नास्तीत्यनुभयं परम् ॥२॥ सर्वात्मत्वे च भावानां भिन्नौ स्यातां न धीधनी। भेदसंहारवादस्य तदभावादसम्भवः ।। ३॥
[प्रमाणवार्तिकम् ३ । १८२-१८५] प्रवृत्तिनियमो न स्याद् विषादिषु तदर्थिनः । मोदकाद्यपृथग्भूतसामान्याभेदवृत्तिषु ॥ ४ ॥ 1 पताः षडपि कारिका आचार्यश्री हरिभद्रसूरिविरचितायाम् अनेकान्तजयपताकायामपि प्रथमेऽधिकारे उद्धृताः ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21