Book Title: Dravyalankara Swopagna Tika
Author(s): Jambuvijay
Publisher: Jambuvijay
View full book text
________________
138
M. Jambūvijaya
___P. 127. तदुक्तम्"अर्थोपयोगेऽपि पुनः स्मात शब्दानुयोजनम् । अक्षधीयद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ।।"
[प्रमाणविनिश्चयः पृ० २५३ पं० १] ___P. 124. एतेन यदुक्तम् -" मध्यव्यवस्थितस्याणोः पूर्वपश्चिमदक्षिणोत्तराधरोर्ध्वव्यवस्थितैः परमाणुभिर्योगोऽस्ति । न चैकेनैव रूपेण सर्वैरपि सम्बध्यते । यदि हि यत्रासो सम्बध्यमान एको व्यवस्थितस्तत्रापरोऽपि भवेत् तदा स्यादेकेनैव रूपेण सर्वेषा. मभिसम्बन्धः, तच्च नास्ति, परमाणूनां सप्रतिघत्वात् । अस्ति चाभिसम्बन्धः । ततो मध्यव्यवस्थितस्य षडंशवप्रसङ्गः" [ ] इति ।
__P. 131. एतेन यदुक्तम्- " तद्धि अर्थसामध्येन उत्पद्यमानं तद्रूपमेवानुकुर्यात् । न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेग्न" [प्रमाणविनिश्चियः पृ० २५२ B ] इति, तत् प्रत्युक्तम् ।
___P. 132. तेन यदुक्तम्-“शब्दस्य संकेतकालभावितत्वं स्मरणं च व्यापकम् , व्याप्यं शब्देन विशिष्टत्वग्रहणमर्थस्य । ततो न संकेतं तत्स्मरणं चान्तरेण शब्देन विशिष्टो गृह्यते" [प्रमाणविनिश्चयटीका पृ. ५७ A पं. ४] ।
___P. 132. ततो यदुच्यते-“ अपेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तम् , परम्परयाऽतीतस्यापि व्यापारदर्शनात् । तद्भावभावित्वमेव हि अपेक्षा । साक्षाच्चाजनकत्वे तद्भावभावित्वस्याभाव:" [प्रमाणविनिश्चयटीका पृ० ६१ B] इति, तद् निःसारम् । P. 133. एवं चैतदपि प्रत्युक्तम्
“ विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा संकलय्यैतत् तथा प्रत्येति नान्यथा" ॥
[प्रमाणविनिश्चयः पृ० २५३ A, प्रमाणवार्तिकम् ११४५] " संकेतस्मरणोपायं दृष्टसंकलनात्मकम् । पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥"
[प्रमाणविनिश्चयः पृ० २५३ B, प्रमाणवार्तिकम् १२१७४ ] P. 135. एतेन यदुक्तम्- " यद्यमिलापवत् विज्ञानं तदा चेतनाचेतनयोस्तादात्म्यमायातम् , न चैतद् युक्तम् " [ ] इति, तत् प्रत्युक्तम् । __P. 136. तदुक्तम्-"विचारकत्वे चेन्द्रियमनोविज्ञानयोरमेदप्रसङ्गात् । अमेदेचातीतानागतवस्तुप्रभेदग्रहणाग्रहणोहानहार्थभावापेक्षानपेक्षादिप्रसङ्गः" [प्रमाणविनिश्चयः पृ०२५३ B]|
___P. 138. तदुक्तम्-" इन्द्रियकृतस्तु रूपग्रहणप्रतिनियमोऽस्तु" [प्रमाणविनिश्चयटीका पृ० ६६A] इति ।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21