Book Title: Dhatuparayanam
Author(s): Munichandrasuri
Publisher: Shahibag Girdharnagar Jain S M Sangh
View full book text
________________ // अहम् // // श्री शङ्केश्वरपार्श्वनाथाय नमः // // श्रीमद् विजय भद्रसूरीश्वरेभ्यो नमः // पुरोवाक् इह खलु विदितमेव विदुषां व्याकरणशास्त्रस्य महत्त्वम् , न तेन विना शास्त्रेष्वस्खलिता गतिः / शाने चाकुण्ठिता मतिः निःश्रेयसफलदानमुखा सम्पनीपयते / उक्तं चाऽन्यत्र"व्याकरणात् पदसिद्धिः, पदसिद्धेरर्थनिर्णयो भवति। अर्थात्तत्त्वज्ञान तत्त्वज्ञानात् परं श्रेयः॥" अस्य,ग्रन्थस्य प्रारम्भेऽप्यूचुः ग्रन्थकारा. कलिकालसर्वज्ञाः श्री हेमचन्द्राचार्याः “इह तावत् पदपदार्थज्ञानद्वारोत्पन्नं हेयोपायदेयज्ञानं निःश्रेयस-हेतुः इति प्रसिद्धम् / " .. अतो निःश्रेयसफलदानलब्धप्रतिष्ठस्य पञ्चाङ्गसंस्कृतव्याकरणस्यैकतमस्याङ्गस्य धातुपाठस्य विवरणात्मकमिदं ग्रन्थरत्न-धातुपारायणम्- विदुषां करकमलेषु समर्पयन्तो वयं परमां मुदं लभामहे / व्याकरणस्य अङ्गानि : . इह खलु संस्कृतव्याकरणशाने पञ्च अङ्गानि / इमानि च तानि- सूत्रपाठः धातुपाठः, गणपाठः, उणादिपाठः, लिङ्गानुशासनं च / अत्र सूत्रपाठो मुख्यः, शेषास्तस्योपकारिणः; ते च 'खिल' शब्देन व्यवट्रियन्ते / अस्ति संस्कृतव्याकरणवाङ्मये धातुपाठस्य विशिष्टं स्थानम् / शब्दानुशासनप्रवचने अनिवार्यमस्य प्रवचनम् / अत एव पूज्यपाद-देवनन्दी-कातन्त्र-चन्द्र-शाकटायनादयो वैयाकरणा. स्वं स्वं धातुपाठं प्रोचुः / पाणिनेरपि प्राचीनस्य आपिशलेः वैयाकरणस्य बहवो धातवो यत्र तत्र ग्रन्थेषूपलभ्यन्ते (सकारमात्रमस्ति धातुमापिशलिराचार्यः प्रतिजानीते, [ सिद्धहेमबृहन्न्यास, 1 / 1 / 22, पृ. 226 ) ततोऽपि प्राक्तनस्य काशकृत्स्नस्य सम्पूर्णो धातुपाठ उपलभ्यते / ___श्री हेमचन्द्राचार्यैरपि स्वकीयधातुपाठस्य प्रवचनं कृतम् , इदं 'धातुपारायणम्' तस्यैव धातुपाठस्योपरि रचितं स्वोपझं विवरणम् / न केवलं धातुपाठः, अपि तु शब्दानुशासनस्य पञ्चाऽप्यनानि विरचितानि तैः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f5dbadb20075e781a438c482b2a6ccd7472be3551be9905ddd6b0a9dc6cdac66.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 532