Book Title: Dhatuparayanam Author(s): Munichandrasuri Publisher: Shahibag Girdharnagar Jain S M SanghPage 13
________________ शब्दानुशासनस्य पञ्चष्वप्यङ्गेषु शब्दानुशास्तुरेव कृतित्वमत्र सिद्धहेमशब्दानुशासन एष दरीदृश्यते / अन्यन्न ज्ञायते एकमपि व्याकरणस्य तन्त्रं यस्मिन् तस्य कव पञ्चाप्यङ्गानि रचितानि / एके, अन्ये, केचित् : इदं 'धातुपारायणम्', यथा पूर्वोक्तम् , धातुपाठस्योपरि रचितं स्वोपझं विवरणम् , तेन अन्यतन्त्रेषु योऽनेकप्रकारो धातुपाठसम्बन्धी मतभेदो दृश्यते, स नात्र रष्टिगोचरः / पाणिनीयतन्त्र एव त्रिप्रकारो धातुपाठो दरीदृश्यते- धातुप्रदीपादौ मैत्रेयादिभिः स्वीकृतः पाठः (पौर्वसंज्ञः ) क्षीरतरङ्गिण्यां क्षीरस्वामिस्वीकृतपाठावतीवभिन्नो वर्तते / सायणेन माधवीया धातुवृत्तौ उपयुक्तः पाठस्ततोऽपि भिन्नः / भट्टोजीदीक्षितस्य सिद्धान्तकौमुदीगतो धातुपाठोऽपि न सर्वथा सायणेन सह संवादितां गच्छति / एवमन्यव्याकरणसम्बन्धिनि धातुपाठेऽपि परःशता मतभेदाः चिरकालात् प्रवर्तन्ते / हेमचन्द्रभगवद्भिः तेषामुल्लेखः यत्र तत्र स्थाने कुत्रचित् विवक्षितमतकारस्योल्लेखपूर्वकम् , बहुत्र तु नामग्राहं विना 'एके, अन्ये, केचित्' इत्युल्लेखेन सह प्रदर्शितः। अमीषामनिर्दिष्टप्रन्थकाराणां नामानि अन्वेष्टुं प्रवृत्तमस्माभिः, विविधधातुपाठादिव्याकरणविषयकग्रन्थावलोकनेन च यान्यभिधानानि लब्धानि तानि नवमपरिशिष्टे (पृ. 474 तः) तत्तग्रन्थनिर्देशपूर्वकं दत्तानि / / शब्दानुशासने धातुपाठस्य स्थानम् : धातुपाठेन सह चत्वारोऽपि खिलपाठाः पूर्व शब्दानुशासनान्तःपातिन एष आसन् , मतिमान्धादिकारणेन पश्चात् तेषां पृथक्प्रकरणपद्धतिः प्रसिद्धेति युधिष्ठिरमीमांसकस्य मतम् (संस्कृत व्याकरण साहित्यका इतिहास भा. 2, पृ. 1 तः 4) / श्रीहेमचन्द्राचार्येण भगवता अस्य धातुपारायणस्य प्रारम्भे गदितम्"श्रीहेमचन्द्रव्याकरणनिवेशितान् स्वकृतधातॄन् / आचार्य हेमचन्द्रो विवृणोत्यहँ नमस्कृत्य / / " पतत्पाठानुसारेण दृश्यते यत् तैः स्वकीयशब्दानुशासन एव धातुपाठस्य प्रवचन कृतम्, किन्तु तत्त्वप्रकाशिकाख्यायां सिद्धहेमबृहवृत्तौ तत्तत्सूत्रव्याख्याने ( यथा-"दिवादेः श्यः" 3 / 472 इत्येतस्य सूत्रस्य बृहदवृत्तौ पवमन्यत्र) दिवाधादिगणगतधातूनां केवलम् अर्थरहितं प्रवचनमुपलभ्यते, भ्वादिगणस्य तु सम्पूर्ण प्रवचनं न दृश्यते / सम्पूर्णसार्थधातुपाठः पृथक्करणत्वेनैवोपलभ्यते / सिद्धहेमशब्दानुशासनस्य लघुपत्ति-वृद्धृत्यादीनां हस्तलिखितप्रतिषु कुत्राऽप्यस्माभिः सार्थधातुपाठो न दृष्टः //Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 532