________________ शब्दानुशासनस्य पञ्चष्वप्यङ्गेषु शब्दानुशास्तुरेव कृतित्वमत्र सिद्धहेमशब्दानुशासन एष दरीदृश्यते / अन्यन्न ज्ञायते एकमपि व्याकरणस्य तन्त्रं यस्मिन् तस्य कव पञ्चाप्यङ्गानि रचितानि / एके, अन्ये, केचित् : इदं 'धातुपारायणम्', यथा पूर्वोक्तम् , धातुपाठस्योपरि रचितं स्वोपझं विवरणम् , तेन अन्यतन्त्रेषु योऽनेकप्रकारो धातुपाठसम्बन्धी मतभेदो दृश्यते, स नात्र रष्टिगोचरः / पाणिनीयतन्त्र एव त्रिप्रकारो धातुपाठो दरीदृश्यते- धातुप्रदीपादौ मैत्रेयादिभिः स्वीकृतः पाठः (पौर्वसंज्ञः ) क्षीरतरङ्गिण्यां क्षीरस्वामिस्वीकृतपाठावतीवभिन्नो वर्तते / सायणेन माधवीया धातुवृत्तौ उपयुक्तः पाठस्ततोऽपि भिन्नः / भट्टोजीदीक्षितस्य सिद्धान्तकौमुदीगतो धातुपाठोऽपि न सर्वथा सायणेन सह संवादितां गच्छति / एवमन्यव्याकरणसम्बन्धिनि धातुपाठेऽपि परःशता मतभेदाः चिरकालात् प्रवर्तन्ते / हेमचन्द्रभगवद्भिः तेषामुल्लेखः यत्र तत्र स्थाने कुत्रचित् विवक्षितमतकारस्योल्लेखपूर्वकम् , बहुत्र तु नामग्राहं विना 'एके, अन्ये, केचित्' इत्युल्लेखेन सह प्रदर्शितः। अमीषामनिर्दिष्टप्रन्थकाराणां नामानि अन्वेष्टुं प्रवृत्तमस्माभिः, विविधधातुपाठादिव्याकरणविषयकग्रन्थावलोकनेन च यान्यभिधानानि लब्धानि तानि नवमपरिशिष्टे (पृ. 474 तः) तत्तग्रन्थनिर्देशपूर्वकं दत्तानि / / शब्दानुशासने धातुपाठस्य स्थानम् : धातुपाठेन सह चत्वारोऽपि खिलपाठाः पूर्व शब्दानुशासनान्तःपातिन एष आसन् , मतिमान्धादिकारणेन पश्चात् तेषां पृथक्प्रकरणपद्धतिः प्रसिद्धेति युधिष्ठिरमीमांसकस्य मतम् (संस्कृत व्याकरण साहित्यका इतिहास भा. 2, पृ. 1 तः 4) / श्रीहेमचन्द्राचार्येण भगवता अस्य धातुपारायणस्य प्रारम्भे गदितम्"श्रीहेमचन्द्रव्याकरणनिवेशितान् स्वकृतधातॄन् / आचार्य हेमचन्द्रो विवृणोत्यहँ नमस्कृत्य / / " पतत्पाठानुसारेण दृश्यते यत् तैः स्वकीयशब्दानुशासन एव धातुपाठस्य प्रवचन कृतम्, किन्तु तत्त्वप्रकाशिकाख्यायां सिद्धहेमबृहवृत्तौ तत्तत्सूत्रव्याख्याने ( यथा-"दिवादेः श्यः" 3 / 472 इत्येतस्य सूत्रस्य बृहदवृत्तौ पवमन्यत्र) दिवाधादिगणगतधातूनां केवलम् अर्थरहितं प्रवचनमुपलभ्यते, भ्वादिगणस्य तु सम्पूर्ण प्रवचनं न दृश्यते / सम्पूर्णसार्थधातुपाठः पृथक्करणत्वेनैवोपलभ्यते / सिद्धहेमशब्दानुशासनस्य लघुपत्ति-वृद्धृत्यादीनां हस्तलिखितप्रतिषु कुत्राऽप्यस्माभिः सार्थधातुपाठो न दृष्टः //