Book Title: Dhatuparayanam
Author(s): Munichandrasuri
Publisher: Shahibag Girdharnagar Jain S M Sangh
View full book text
________________ गणानां विभजनम् : धातुपाठस्य विभजनपद्धतिः विप्रकारा पुरातनकालादू विद्यते / पाणिन्यादिभिराचार्य: धातूनां दशसु गणेषु विभजनं कृतम् , पाणिनेरपि प्राचीनेन काशकृत्स्नेन नवगणात्मको धातुपाठः प्रोक्तः / आचार्यहेमचन्द्रसूरयोऽपि नवगणात्मिकां धातुपाठपद्धति स्वीकृतवन्तः / एषां मते दशगणास्ते जुहोत्यादिधातूनां स्वतन्त्र गणं स्वीकुर्वन्ति; ये तु नव गणान् कथयन्ति ते जुहोत्यादिधातून अदादिगण एव अन्तभृतान् मन्यन्ते। .. ग्रन्थस्य रचना पद्धतिः ___अत्र प्रन्थे, धातूनां पाठे प्रथमं परस्मैपदिनो धातवः, तत आत्मनेपदिनः, पञ्चादुभयपदिनः / तत्रापि प्रथमं स्वरान्तधातवोऽनुक्रमेण, ततो व्यञ्जनान्ताः। यत्र यत्र तु क्रमभङ्गस्तत्र प्रायः प्रयोजनं निदर्शितम्; यथा-अर्थसाम्याथम, परम्परानुसरणार्थम् / क्वचित् वर्णक्रमो न भियते यथा 1 / 747 नाधृक् नाथस्वत् / धातूनां पाठानन्तरं धातोरर्थः, यत्र च अर्थविषयका स्पष्टताऽऽवश्यकी तत्र तत्र अर्थस्य पर्यायादिर्दत्तः / यत्र चकारात् अर्थस्यानुवृत्तिया भवति तत्र साऽपि शब्दमाई दर्शिता पथा 1 / 191 मिश 492 मश रोषे च, चकारात् शब्दे; शब्दने रोषक्रियायां चेत्यर्थः / . अर्थ-पर्यायानन्तरम् वर्तमानकालतृतीयपुरुषकवचनस्य रूपं दत्तमस्ति, ततोऽन्यानि अपि कपाणि तत्तत्सम्बन्धिसिद्धहेमसूत्रनिर्देशपूर्वकं निरूपितानि / पश्चात् सत्रनिर्देशपूर्वकं कृदन्तप्रत्ययैः कृदन्ताः शब्दाः उणादिप्रत्ययैश्च उणाचन्ताः शब्दाच साधिताः / क्वचिदेक पव शब्दः कृत्प्रत्ययेन उणादिप्रत्ययेन च साधितोऽस्ति; एततु पञ्चमपरिशिष्टे शब्दसूचिदर्शनेन ज्ञातुं शक्यते / . यत्र च अमुकः शब्दो न तस्माद् धातोः निष्पद्यते, अथ च वर्णसाम्यात् तथाविधभ्रमस्य सम्भावना, तत्र तच्छब्दः अमुकस्माद घातोः अमुकेन खत्रेण निष्पन्न इति स्पष्टीकरणं कृतमस्ति, यथा - 'अनोकह इति तु अनितेः ओकहे' (पृ. 156 / पं. 5) / बहुत्र अकारस्थले बकारः, सकारस्थले च शकारो मा भूत् इत्यर्थम् अयं दन्त्यौउपादि. अयं दन्त्यादिः इति स्पष्टता कृता अस्ति / उपलब्धधातुविवरणानि : विविधधातुपाठोपरि अद्ययावत् बढ्यष्टीका निमिताः सन्ति तासां मध्ये बढीनाम् अस्तित्वं तु यत्रतत्रागतोल्लेखादेव ज्ञायते, न तेषां ग्रन्थानामुपलब्धिः / भीमसेन-देवनन्दीपन्द्रगोम्यादीनां धातुपाठानामुपरी टीका न प्राप्यन्ते, कालकवलितास्ताः खलु / / . बोपदेषस्य कविकल्पद्रुमस्योपरि दुर्गादासस्य धातुदीपिका टीका, मैत्रवरक्षितस्य धातुप्रदीपः', क्षीरस्वामिनः क्षीरतरङ्गिणी', आचार्यश्रीहेमचन्द्रसूरेः 'धातुपारायणम्', कृष्ण
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 532