Book Title: Dharmlabh Shastra Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 6
________________ अनुसंधान-३० श्रीशङ्केश्वरपार्हिन् विवस्वानेष शाश्वत: । यत्प्रभावाद्धर्मलाभेऽधिकारः प्रथमोऽभवत् ॥२५॥ प्रथमाधिकार पुष्पिका इति श्रीधर्मलाभे महोपाध्यायमेघविजयगणि-प्रकटीकृते प्रथमोऽधिकारः सम्पूर्णः ।। (७ ए) द्वितीयाधिकार मंगलाचरण नत्वा श्रीपरमं ज्योतिःस्वरूपं पार्श्वमीश्वरम् । अज्ञातजन्मनः पुंसो धर्मलाभं निदर्शये ॥१॥ हस्तसंजीवनग्रन्थ-वृत्तौ श्लोकचतुष्टयम् । इष्टोपदिष्टं तद्व्याख्या सोदाहरणमुच्यते ॥२।। द्वितीयाधिकार प्रशस्ति इत्येवं भुवनेश्वरस्य भगवत्पार्श्वस्य नाम्नः स्फुरत्सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया ।। मन्त्राध्यक्षवणिक्षु पारस इति ख्यातस्य लक्ष्मीपतेस्तत्राभूदधिकार एष यशसां हेतुर्द्वितीयः श्रिये ||१|| इति श्रीधर्मलाभे शास्त्रे महोपाध्यायमेघविजयगणिना प्रकटीकृते द्वितीयोऽधिकारः ॥ (१२ बी) तृतीयाधिकार मंगलाचरण अथाधिकारः पुरुषोत्तमस्य प्रारभ्यते केशवलभ्यनाम्ना । पार्श्वप्रभोः शाश्वतभास्वतोऽस्मिन् शङ्केश्वरस्य प्रणिधानधाम्ना ॥१॥ तृतीयाधिकार प्रशस्ति इत्येवं पुरुषोत्तमस्य भगवत्पार्श्वस्य शद्धेश्वरस्याह्वानस्य निवेशनेन विदितः श्रीकेशवस्याप्ययम् ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया तत्राभूदधिकार एष यशसां हेतुस्तृतीयः श्रिये ॥१॥ (१६ ए) चतुर्थाधिकार मंगलाचरण अथाधिकारः प्रारभ्यः श्रीपार्श्वेशप्रभावतः । श्रीमदुत्तमचन्द्रस्य वाङ्मयाचिर्बलान्मया ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10