Book Title: Dharmlabh Shastra
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ December-2004 स्याद्रूपं लक्षणं भावश्चात्य प्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥१२॥ शीलं सतत्त्वसंसिद्धिरित्याद्यैर्नामभिः स्मृतः । धर्मस्वभावस्तल्लाभस्ततः स भव उच्यते ॥१३॥ त्रिपद्यामपि तत्पूर्वमुत्पादः प्रतिपादितः । श्रीचतुर्दशपूर्वेषु तथा भगवताऽर्हता ॥१४॥ पञ्चमांगे चतुः पद्यां पूर्वमुत्पादसूचनम् । तज्जन्मपत्रात् सर्वस्य स्वभावः प्रकटीभवेत् ॥१५।। चिदानन्दमयं सौख्यमक्षयं लभ्यतेऽङ्गिभिः । यद्धर्मलाभात् सुगमं तन्नृजन्माऽत्र साध्य ॥१६|| वर्षर्तुमासपक्षाहस्तिथिवारोडुनाडिका । लग्नराशियुजः खेटा ज्ञेया द्वारैः पुरागतैः ॥१७।। वर्ष मास: पक्षतिथी घटीत्यावर्षकं मतम् । पञ्चकं धर्मलाभज्ञैः शेषं तु परिशेषतः ॥१८॥ दिनमानं विनिर्णीय पूर्व लग्नं प्रसाधयेत् । षड्वर्गशुद्धेनानेन धर्मलाभो ध्रुवं भवेत् ॥१९।। यः स्याज्ज्योतिःशास्त्र-चूडामणि-सामुद्रिकादिषु । वेत्ता प्राज्ञस्तथाभ्यासी धर्मलाभोऽस्य निश्चितः ।।२०।। क्रियाजप-तप:सक्तो व्यक्तो रक्तः सुरार्चने । इष्टं स्मरन् गुरुं ध्यायेत् धर्म स लभते सुधीः ॥२१॥ प्रश्ने भतभवद्भावि-दिनत्रयं विलिख्यते । वर्तमानतिथिर्वारभयोगघटिकान्वितम् ॥२२॥ लेख्या वेलार्कसंक्रान्तेरुद्भवस्य घटीपलैः । . भुक्ता भोग्यास्तदीयांशाः स्पष्टतांशादिका विधोः ॥२३॥ सर्वतोभद्रयन्त्रस्य स्पर्शः कार्योऽत्र नाणकैः । फलनामापि च ग्राह्यं धार्यं चित्तेऽवधानतः ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10