Book Title: Dharmlabh Shastra
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ 10 अनुसंधान-३० चातुर्येण चतुर्दशोऽयमभवत् तत्राधिकारः शुभः, ग्रन्थे केशव एव तद् विजयतां मौलोऽत्र हेतुः श्रिये // 14 // (39 ए) रचना प्रशस्ति मत्वैवं भुवि धर्मलाभवचनं धीरैः परं दुर्लभं तत्प्राप्तावपि धर्मलाभविधिना साध्यं शिवोपार्जनम् / सम्यग्दर्शनबोधसाधुचरणान्यस्यायनं संस्मृतं सर्वज्ञैः जिनभास्करैः समुदितैः सिद्धिप्रतिष्ठाधरैः // 2 // जीयासुर्विजयप्रभाः, सुगुरवः श्रीमत्तपागच्छपास्तत्पट्टे विजयादिरनगणभृत् सूर्याश्च सूर्यादिमाः / तद्राज्ये कवयः कृपादिविजयास्तेषां सुशिष्यो व्यधात् शास्त्रं बालहिताय मेघविजयोपाध्यायसंज्ञः श्रिये // 3 // यदत्र किञ्चिल्लिखितं प्रमादा-दुत्सूत्रमास्थाय बलं स्वबुद्धेः / तज्जैन भक्तैः परिशोध्य साध्यः सद्धर्मलाभो ह्यनया दिशैव // 4 / उपाध्यायैरेवं ननु विरचितं मेघविजयैस्तपागच्छे स्वच्छे रसमयमिदं वाङ्मयमिह / बहूनां लोकानामुपकृतिविधौ तत्परतरैरमुष्मान्नैपुण्यात्समवहितपुण्याद् विजयताम् // 5 // द्वे सहस्त्रे पञ्चशतान्यस्य मानमनुष्टुभाम् / श्रीधर्मलाभशास्त्रस्य ज्ञातव्यं भव्यधीधनैः // 6 // सूर्याचन्द्रमसौ यावद् यावन्मेरुर्महीधरः / श्रीजैनं शास्त्रं यावत् तावद् ग्रन्थः प्रवर्तताम् // 7 // इतिश्रीधर्मलाभशास्त्रे सामुद्रिकप्रदीपे महोपाध्याय श्रीमेघविजयगणिप्रकटिते चतुर्दशोऽधिकारः पूर्णः / पूर्णे च तस्मिन् ग्रन्थोपि पूर्णः ॥श्री:।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10