Book Title: Dharmlabh Shastra
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अनुसंधान-३० सप्तमोधिकार प्रशस्ति श्रीशङ्केश्वरपार्श्वशाश्वतरवेः श्रीकेशवार्चाभृतः । शुश्रूषोस्तव वर्णमेघविजयस्यौन्नत्यभावो भुवि ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया तत्राभूदधिकार एष यशसां हेतुः श्रिये सप्तमः ।। (२८ बी) अष्टमोधिकार मंगलाचरण नेत्रानन्दनकारिणा भगवता पाइँन शकेश्वरेत्याह्वानेन कलाभरैः कुवलयोल्लासं सदा कुर्वता । त्रैलोक्ये प्रतिभासिते समुचितः सोमाधिकारोधुना, प्रारभ्यः किल सभ्यकेशवप्रियाश्रीधर्मलाभाप्तये ॥ (२८ बी) अष्टमोधिकार प्रशस्ति श्रीशकेश्वरपार्श्वशाश्वतरवे: श्रीकेशवार्चाभृतः । शुश्रूषोस्तव भक्तमेघविजय श्रीसोमनाम्नः सदा ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया । तत्राभूदधिकार एष यशसां हेतुः श्रियेऽप्यष्टमः ॥ (३२ ए) नवमोधिकार मंगलाचरण श्रेष्ठा ज्येष्ठामल्लधर्मानुभावो, भावायैषां भाव्यते केशवाज़: । पाश्वो भास्वानेव शोश्वराख्य-स्तस्माद्विश्वे शाश्वतोऽस्तु प्रकाशः ।। (३२ ए) नवमोधिकार प्रशस्ति श्रीशद्वेश्वरपार्श्वशाश्वतरवेः श्रीकेशवार्चाभृतः । शुश्रूषोस्तव भक्तमेघविजय ज्येष्ठादिमल्लस्य सः ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो भया तत्राभूदधिकार एष नवमो हेतुर्यशःसम्पदाम् ॥ (३५ बी) दशमोधिकार मंगलाचरण अथ श्रीमूलराजस्य पार्श्वभास्वत्प्रसादतः । साध्यते धर्मलाभोऽयं केशवाभ्युदिताऽध्वना । (३५ बी) दशमोधिकार प्रशस्ति प्रभास्वत्केशवार्चस्य श्रीमेघविजयधुतेः । मूलराज धर्मलाभः प्रोक्तः श्रीपार्श्वभास्वतः ॥ (३६ ए) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10