Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ Jain Education Inter तथाहि--यथा नातिप्रबलोऽग्निर्जलकणिकामात्रेणोपशाम्यति, न चासावल्पः स्वयमेव नोपशान्तिमेति, न चानयोर्न विरोधः, तथेहापि द्रष्टव्यमित्यलं प्रसङ्गेन । तत्र व्याख्या - रज्यतेऽनेनेति रागः - रागवेदनीयं कर्म्म, कचिदिष्टे वस्तुनि तेन जन्तोरभिष्वङ्गपरिणामापादनात्, रञ्जनं वा रागः - रागवेदनीय कर्म्मविपाकोदय सम्पादितो जन्तोरभिष्वङ्गपरिणाम एव । वीतो रागो येनं स वीतरागस्तम् " नमिऊण " नत्वा । रागग्रहणं द्वेपमोहोपलक्षणं, ततो वीतद्वेषं वीतमोहं चेत्यपि द्रष्टव्यम् । तत्र द्विष्यतेऽनेनेति द्वेषः - द्वेषवेदनीयं कर्म्म, कचिदनिष्ठे वस्तुनि तेनात्मनोऽप्रीतिपरिणामापादनात्, द्वेषणं वा | द्वेषः - द्वेषवेदनीयकर्म्मविपाकोदयजनितो जन्तोरप्रीतिपरिणाम एव । तथा मुह्यतेऽनेनेति मोह: - मोहवेदनीयं कर्म, तेन यथावस्थितवस्तुतत्त्वपरिच्छेदविषये जन्तोरज्ञानपरिणामापादनात्, मोहनं वा मोह :- मोहनीयकर्म्मवि| पाकोदयजनितो जन्तोरज्ञान परिणाम एव । एतदुपलक्षणं रागग्रहणं यस्मादाह - " सवण्णुं " सर्वज्ञम् । नह्यवीतराग इवावीतद्वेषादिः सर्वज्ञो भवतीति । सर्व जानातीति सर्वज्ञः, यथा च विशेषग्रापि ज्ञानं कथञ्चित्सामान्यस्यापि ग्राहकत्वात्सर्ववस्तुग्राहि भवति तथोत्तरत्र स्वयमेवाचार्यो दर्शयिष्यतीति नाधुना वितन्यते । ननु यो वीत| रागः स सर्वज्ञ एव, ततो गतार्थमिदं विशेषणमिति नोपादेयम्, न, छद्मावस्थाभाविवीतरागव्यवच्छेदफलत्वात् । १ कर्तृत्वविवक्षया अन्तर्भूतणिजर्थत्वात् । For Private & Personal Use Only %%% *% *% *% *% *%** www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 424