Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ SCALCCCCCCCCCESSAR त्वेन व्याप्तेः, निष्फलाभिधेयेन च पुरुषार्थानुपयोगितया कस्यचिदपि प्रेक्षावतोऽर्थित्वाभावात् , अतः प्रकरणारम्भ सफलं दिदर्शयिषुराचार्योऽनया गाथयाऽभिधेयप्रयोजनमेवाभिधत्ते, तस्मिंश्चाभिहिते सति सामर्थ्यादभिधेयं प्रयोजनं संबन्धश्चोक्तो भवति । वाक्यावयवभेदकल्पनया च केवलं पृथगुपदर्शयिष्यन्ते । नत्वेकं वाक्यमनेकमर्थं खतत्रमुपादातुं समर्थम् । तत्राभिधेयप्रयोजनम्-यतो धर्मेऽभिधीयमाने स्वपरयोरुपकारो भवति, ततो धर्मसङ्ग्रहणिरारभ्यते । अनेन चाभिधेयस्य निष्फलत्वाशङ्काव्युदासः। एवं चोक्ते सति सामर्थ्याद्धर्मशब्देन धर्मोऽभिधेय उक्तः। तथा च सत्यशक्यानुष्ठानत्वाशङ्कानिरासः, अनुक्तादपि च सामर्थ्यब्धाद्धर्मखरूपावगमलक्षणात् श्रोतुरनन्तरप्रयोजनात् अनभिमतश्रवणप्रयोजनाशङ्कापनोदः।धर्मप्रतिपादिका संग्रहणिरारभ्यते, इत्यनेन च समासार्थेन प्रकरणाभिधेययोरुपायोपेयलक्षणः संबन्ध उक्तो द्रष्टव्यः, तेनान्योपायत्वाशङ्काव्युदासः, यदि ह्यतोऽपि लघुरुपायः स्यात् || नवेयमारभ्यतेति । नचातीन्द्रियं वस्तु खमनीषिकयाऽभिधीयमानं प्रेक्षावतामुपादेयं भवतीति धर्माभिधानस्यातीन्द्रियार्थदर्शिवचननिवन्धनतां दर्शयन् क्रियानन्तर्यलक्षणं सम्बन्धान्तरमुपदर्शितवान्-'जिणवयणं गुरुवएसओणाउं वोच्छामि त्ति' जिनवचनगताद्विस्तरतो धर्माभिधानादिदं संक्षेपतो धर्माभिधानमनन्तरं भवतीति ॥३॥ साम्प्रतं यथेदं प्रकरणमवश्यमारम्भणीयं भवति यथा च प्रेक्षावतामिदमवश्यमुपादेयं तथोपपादयितुमुपक्रमते धम्मो खल पुरुसत्थो सपरुवयारो य सो मुणेयवो। Jain Education inte For Private & Personel Use Only Miwww.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 424