Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणि.
॥४॥
दिवात्सल्यप्रभृतिलक्षणेन शुभेन भावेन-अध्यवसायेन यत् अर्जितं तीर्थकरनामकर्म तस्य यः शुभो विपाक-उदयदानाभिमुख्यं तस्मादनुपकृतपरहितरतम्। एतदुक्तं भवति-अर्हद्वात्सल्यादिनिमित्ततीर्थकरनामकर्मोदयसामर्थ्यात्तत्वभावतया सवितेव प्रकाशमुपकार्यकृतोपकारानपेक्षः शास्त्रार्थमातनोति, ततो न यथोक्तदोषप्रसङ्ग इति । ननु यो वीतरागत्वादिगुणकलापोपेतः सोऽवश्यं तीर्थकर एवेति नार्थोऽनेन विशेषणेन, न, गणभृतां समुत्पन्नकेवलज्योतिषां सकलस्यापि विशेषणकलापस्य घटनात्, अतस्तद्यवच्छेदार्थ तीर्थकरग्रहणम् । यद्येवं ततस्तीर्थकरमित्येतावदेवोच्यतामलं वीतरागादिग्रहणेन, उच्यते-इह सरिदादीनां विषमस्थानेषु ये सुखावताराय तीर्थकरणशीलास्तेऽपि लोके तीर्थकरा उच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेष्वपि संप्रत्यय इति तदपनोदाय वीतरागादिग्रहणम् । कं पुनरेवंभूतं नत्वेत्यतो विशेष्यमाह-महावीरमिति, 'ईर गतिप्रेरणयों रित्यस्य विपूर्वस्य विशेषेण ईरयति-प्रेरयति विनाशयति कर्म याति च शिवमिति वीरः, महांश्वासौ वीरश्च महावीरस्तं नत्वा । ननु यो महावीरः स वीतरागत्वादिगुणक
लापोपेत एवेत्यपार्थकं वीतरागाधुपादानम्, न, नाममहावीरादिभेदव्युदासकारितया अस्य सफलत्वात् । एवं| हयादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन यथाशक्ति विशेषणसाफल्यं वाच्यमित्यलं प्रसङ्गेन ॥१-२॥ एवमिष्टंदेवतास्तवाभिधानेन निरस्ताशेषविघ्नविनायकः प्रेक्षावतां प्रवृत्त्यर्थ प्रयोजनादि प्रतिपिपादयिषुरिदमाह
१ धर्मस्यात्राधिकृतत्वात्तस्य प्रकृष्टस्य च तीर्थकर एव सत्त्वाद्धर्मधर्मिणोश्चाभेदादत्र तीर्थकर एवाधिकृतदेवता इष्टदेवता तस्यै कृतैव नतिरत्र दागाथायुग्मेन।
तं नत्वेत्यतो विश
ALSSESASSASSSS
वीरः, महांश्चाता
नाममहावीरादिनाच्यमित्यलं प्र
॥
४
॥
Jain Education Inter
For Private & Personel Use Only
W
ww.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 424