Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
संग्रहणिः
तत्रोभयपदव्यभिचारे यथा-नीलोत्पलम् , एकपदव्यभिचारे यथा-आपो द्रव्यं पृथ्वी द्रव्यं, स्वरूपज्ञापने यथा-परमाणुरप्रदेश इति । यद्येवं तर्हि अचिन्त्यशक्तिमित्येतावदेव मनोहरं, वीतरागादिग्रहणं पुनरपार्थकम् , न, लोके मण्यादीनामपि अचिन्त्यशक्त्युपेततयाऽभ्युपगमात्, “अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव" इतिप्रवादात्, अतस्तत्कल्पो भगवान् मा प्रापदिति तद्यवच्छेदार्थ वीतरागादिग्रहणम् । एतैश्च विशेषणपदैरपायापगमातिशयादयश्चत्वारो मूलातिशया निर्दिष्टा वेदितव्याः, तद्यथा-अपायापगमातिशयः ज्ञानातिशयः पूजातिशयो वागतिशयश्च । तत्र वीतरागमित्यनेनापायापगमातिशयमाह, सर्वज्ञमित्यनेन ज्ञानातिशयम्, त्रिदशपूजितमित्यनेन
पूजातिशयम् , यथाज्ञातवस्तुवादिनमित्यनेन तु वागतिशयम् , अचिन्त्यशक्तिमित्यनेन पुनः खरूपावधारणमिति । हैनन्वेषामतिशयानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्त इति, अस्तीति ब्रूमः,
किं तदिति चेत् ?, उच्यते-एवमेव भावः, तथाहि-नावीतरागः सर्वज्ञो भवति, न चासर्वज्ञस्य सतस्त्रिदशास्तथा पूजां कुर्वन्ति, नच तत्कृतपूजोपचाराभावे भगवान् धर्ममाचष्टे इति । एते चान्येषामपि देहसीगन्ध्यादीनामतिशयानामुपलक्षणम् , ततश्चतुस्विंशदतिशयसम्पत्समन्वितं भगवन्तं नत्वेत्युक्तं द्रष्टव्यम् । तथा चाह" तित्थयरं " तीर्थकरम् , नद्यपायापगमातिशयादिरहित इव देहसौगन्ध्याद्यतिशयरहितस्तीर्थकरो भवतीति ।
१ भावाईन्यनिबन्धनत्वादेषाम् । २ अतिशयचतुष्कस्य आजन्मभावित्वात् ।
Jain Education Inte!
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 424