Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥३॥
'विभवो राज्यऋद्धिसमृद्धिस्वरूपेच्छया भोगभोक्तृत्वम् । भोगास्तु मनोऽनुकूलाः शब्द-रूप-रस- गन्ध-स्पर्शरूपाः । | महिमा - यशः सर्वत्र स्वपरदेशादिषु विख्यातिरूपः । महोदयश्च स्वमनश्चिन्तितार्थप्राप्तिः । एतत्सर्व पूर्वोक्तदानपुण्यरूपकल्पद्रुमस्य फलोदयो ज्ञेयः ।
विना आगमोक्त शुचिदानधर्मसेवनया विभवादिप्राप्तिर्नास्ति । लोकेऽपि दिंधमान फले' इति प्रसिध्धिः । कदापि मिथ्यात्वोदयेन मिथ्याज्ञानश्रध्धया अज्ञानकष्टकारकबालतपस्वी कष्टकृत्यापापाऽनुबन्धिपुण्यं संचिनोति परन्तु तस्योदये सुपात्रदानमतिर्न भवति । यदि आगमोक्तविधिना स्तोकमपि सुपात्रदानादिधर्म श्रध्धया करोति तदा तस्य पुण्यानुबन्धिपुण्यं | भवति । तस्योदये पुनर्दानपुण्यमतिर्जायते । यदि कदापि पूर्व कस्यापि भवान्तरजन्मोपार्जितपापोदये धनं त्रुट्यति तथापि दानादिमतिर्न त्रुट्यति, पापोदयेऽपि यथावसरे दानादिबुध्धिः प्रबला भवति सा तस्य सद्यः फलवती भवत्येव । तद्यथा - पुण्यानुबन्धिपुण्योपरि गुणसार श्रेष्ठिनो दृष्टान्तः
एकस्मिन् पुरे गुणसारव्यवहारी प्रब् धन-धान्यदियुक्त आढ्यो दीप्तोऽपरिभूतः परिवसति । तस्यैकदा प्रस्तावे सद्गुरुयोगो मिलितस्तदाऽनेन नमस्कारादिः कृतः । करुणाभृतेन गुरुणाऽपि धर्मलाभदानपूर्वकं जीवादिनवानामापि पदार्थानां तत्त्वोद्भासको धर्मो मर्मसंयुक्तो दर्शितः । तेनापि रसिकतया सोत्साहं स्वचितेऽवधारितः । अपूर्वलाभाद् हर्षितः सन् सम्यक्त्वग्रहणपूर्वकं १. दानकल्पद्रुमे - विभवो वैभवं भोगा महिमाऽथ महोदयः । दानपुण्यस्य कल्पद्रोरनल्पोऽयं फलोदयः ॥ ३॥ इत्यस्य व्याख्या । २. दीयमानफलं दीधानुं फल इति भाषा ।
Jain Education International
For Personal & Private Use Only
प्रथमः
पल्लवः
|| 3 ||
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 496