SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥३॥ 'विभवो राज्यऋद्धिसमृद्धिस्वरूपेच्छया भोगभोक्तृत्वम् । भोगास्तु मनोऽनुकूलाः शब्द-रूप-रस- गन्ध-स्पर्शरूपाः । | महिमा - यशः सर्वत्र स्वपरदेशादिषु विख्यातिरूपः । महोदयश्च स्वमनश्चिन्तितार्थप्राप्तिः । एतत्सर्व पूर्वोक्तदानपुण्यरूपकल्पद्रुमस्य फलोदयो ज्ञेयः । विना आगमोक्त शुचिदानधर्मसेवनया विभवादिप्राप्तिर्नास्ति । लोकेऽपि दिंधमान फले' इति प्रसिध्धिः । कदापि मिथ्यात्वोदयेन मिथ्याज्ञानश्रध्धया अज्ञानकष्टकारकबालतपस्वी कष्टकृत्यापापाऽनुबन्धिपुण्यं संचिनोति परन्तु तस्योदये सुपात्रदानमतिर्न भवति । यदि आगमोक्तविधिना स्तोकमपि सुपात्रदानादिधर्म श्रध्धया करोति तदा तस्य पुण्यानुबन्धिपुण्यं | भवति । तस्योदये पुनर्दानपुण्यमतिर्जायते । यदि कदापि पूर्व कस्यापि भवान्तरजन्मोपार्जितपापोदये धनं त्रुट्यति तथापि दानादिमतिर्न त्रुट्यति, पापोदयेऽपि यथावसरे दानादिबुध्धिः प्रबला भवति सा तस्य सद्यः फलवती भवत्येव । तद्यथा - पुण्यानुबन्धिपुण्योपरि गुणसार श्रेष्ठिनो दृष्टान्तः एकस्मिन् पुरे गुणसारव्यवहारी प्रब् धन-धान्यदियुक्त आढ्यो दीप्तोऽपरिभूतः परिवसति । तस्यैकदा प्रस्तावे सद्गुरुयोगो मिलितस्तदाऽनेन नमस्कारादिः कृतः । करुणाभृतेन गुरुणाऽपि धर्मलाभदानपूर्वकं जीवादिनवानामापि पदार्थानां तत्त्वोद्भासको धर्मो मर्मसंयुक्तो दर्शितः । तेनापि रसिकतया सोत्साहं स्वचितेऽवधारितः । अपूर्वलाभाद् हर्षितः सन् सम्यक्त्वग्रहणपूर्वकं १. दानकल्पद्रुमे - विभवो वैभवं भोगा महिमाऽथ महोदयः । दानपुण्यस्य कल्पद्रोरनल्पोऽयं फलोदयः ॥ ३॥ इत्यस्य व्याख्या । २. दीयमानफलं दीधानुं फल इति भाषा । Jain Education International For Personal & Private Use Only प्रथमः पल्लवः || 3 || www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy