________________
श्रीधन्यचरित्रम्
प्रथमः
14/पल्लव
॥४॥
गृहिधर्मोऽङ्कीगृतः । तत्र प्रतिदिनमेकान्तरोपवासकरणम्, संयोगे सति सुपात्रदानं अभिग्रहश्च गृहीतः एवं कियद्भिदिनैर्गुरुयोगाद् धर्मे कुशलो जातः । परिणामवृद्धया धर्मं निर्बहति । एवं क्रियत्यपि काले तस्य पूर्वकृतचिक्कणपापोदयेन धनधान्यनाशे जातेऽपि धर्माभिग्रहं न मुञ्चति । बहुलपापोदयेन दरिद्री जातोऽतिकष्टेनोदरपुरणं करोति । गते धने न कोऽपि सहायीभवति । तदैकदा स्वभार्ययोक्तम्-स्वामिन् ! सर्वस्वं गतम्, विना धनं चोद्यमो न भवति । दरिद्राऽवस्थायां धनं को ददाति ? अतो मम पितृगृहे | गम्यताम् । मम पिता ममोपरि स्नेहबहुलत्वेन दर्शनमात्रे धनं दास्यति, पुनस्तेन गृहं निर्वहिष्यति, नाऽन्य उपायोऽस्तीति प्रत्यहं स्त्रिया प्रेरितः स्त्रियं प्रत्याह-हे प्रिये ! दुःखाऽवस्थायां तत्र गन्तुं न युक्तमपि त्वदुक्तया प्रभाते गमिष्यामि। तदा तया चिन्तितम्सार्द्धद्वयदिनो मार्गोऽस्ति । तत्रैकदिने उपोषितव्रतम् । द्वितीयदिनपारणायोग्यं पथ्यदनं सक्थु गुडखण्डञ्च कोस्थलीकायां क्षिप्त्वाऽदत्त । सन्ध्यायां ग्रामे रात्रिमतिक्रम्य द्वितीयदिने मध्याह्ने जाते तटिन्या उपकण्ठे पारणकरणार्थ स्थितः, तदा ध्यातं चाऽनेन-धन्यास्ते ये प्रतिदिनं मुनिदानं बिना न भुञ्जते। मम तु पापोदये कुतस्तद्योगः? कदापि तद्योगश्चेत्तदाऽतिभव्यं भवतीति ध्यानन् दिगालोकं कुर्वन् स्थितः । ईदृशेऽवसरे मासक्षपणो मुनिः पारणार्थं ग्रामन्तर्गतः, तत्र शुद्धं जलं तु मिलितं, आहारस्तु दूषणशङ्कया न गृहीतः । केवलं जलं गृहीत्वाऽऽगच्छन्तं दृष्ट्वा विधुदर्शने चकोर इव हर्षितः अहो ! मम भाग्यानि जाग्रति, धन्योऽहम् । यदि चाऽयं मुनिराट् इदं गृह्णाति तदाऽहं धन्यानां धन्यतमोऽमीति ध्यात्वा सहर्ष सम्मुखं गत्वा नमस्कारं कृत्वा चाऽऽह-भो कृपानिधे ! इतः पादोऽवधार्यताम्, प्रसादं च कृत्वा मम दीनस्योद्धरणं कार्यम्, निर्दूषितोऽयमाहारो गृह्यतामिति सरोमाञ्चं गद्गदस्वरेण विज्ञप्तिं कृत्वा मुनिरानीतः । मुनिनापि त्रिधा शुद्धमाहारं दृष्ट्वा पात्रं धृतम्। तस्मिन्नवसरे तस्याऽसम्भविनः
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org