________________
श्रीधन्यचरित्रम्
प्रथमः पल्लवः
॥
५
॥
| सम्भवं दृष्ट्वा चन्द्रोदये जलधिवेलेव भावधारोल्लासं प्राप्तः सन् विचारयति स्म-किमिदं स्वप्नं वा सत्यम् ? पापोदयिनो मम भवसमुद्रे निमज्जतो वडसफरियानपात्रं कुतः? इति ध्यायन् समग्रमपि तामाहारं पात्रे दत्त्वा नमस्कारं च कृत्वाऽऽह-स्वामिन् ! क्षमाश्रमणेन मम वराकस्योपरि महती कृपा कृता । निस्तारितो भवार्णवात् । सफलीभूतं मम जन्म जगदेकशरणानां भवतां |' सुदर्शनात् । इत्यादि स्तुत्वा सप्ताऽष्टापदान्यनुगत्य पुनर्नत्वा च स्वस्थानमागत्य वस्त्रादीनि लात्वा पुनर्मार्गे चलितो मनस्येवं भावयति-अहो ! अद्य मम शुभोदयवान् दिवसः, धन्या घटिका यत्सुविहितमुनिदर्शनं जातं, प्रतिलाभितश्च । तेन कामगवी स्वयमेवाऽऽगता ममाङ्गणे, अचिन्तितश्चिन्तामणिर्लब्धः, मानुष्यं सफलं संजातं, अक्षयपाथेयं मया प्राप्तम्, अतः परं द्रव्यभावदारिद्यं गतं, लोकोत्तरलाभश्च प्राप्तः । इत्येवं सहर्ष पुनः पुना यन् मार्गे चलति । क्षुधा तृट् च विस्मृता । दत्तदानहर्षेणाऽऽपूरितहृदयो प्रतिक्षणं सपुलकः क्रमेण श्वसुरग्रामं यावद् गतः । तत्र ग्राम प्रतोल्यां प्रविशतो मन्दाः शकुनाः संजाताः । तान् दृष्ट्वा ध्यातं चानेन-स्वस्त्रिया प्रेरितोऽत्रागतः, परं कार्य भवन्न दृश्यते। पुनश्चिन्तितम्-अत्राऽऽगमनप्रयाससफलं मया लब्धम्, इदं तु भवतु मा वा, यद् भाविना दृष्टं तद् भविष्यति, किमन्तर्गडुनाऽऽर्तिकरणेन ? इत्येवं ध्यायन् चतुष्पथं यावद्, गतस्तावद् हट्टस्थितेन श्वसुरेण शालकैश्च दृष्टः । परस्परं वार्ता कर्तुं प्रवृत्ताः-ज्ञातम् ? अयं दारिद्यमूर्तिर्जामाताऽऽगच्छति रिक्तघटतुल्यः । परमस्य मुखं न देयं, मुखं च दीयते चेत्तदा गले पतित्वा द्रव्यं मार्गयिष्यति । अयं तु निर्धनो जातः, निर्धनस्य च त्रपा? उक्तं च "तेजो-लज्जा-मति-मानमेते यान्ति धनक्षये" इत्यादि । अनेन पुनस्तुच्छबुद्धिनाऽनुचितव्यवसायकरणेन कर्णसुखदकीर्त्यादिहेतोर्दानपुण्येन च द्रव्यं व्ययितं, परन्तु स्वगृहनिर्वाहचिन्ता न कृता, निःस्वीभूतोऽस्मत्पृष्ठे लग्नः, किमत्र धनस्याऽऽ करोऽस्ति ? किं दत्त्वा विस्मृतं यदस्माकं नटयितुमागतः ? किमप्यधुना दीयते तत्वसँ खानपाने व्ययं कृत्वा
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org