SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् पल्लवः पुनरागमिष्यति । जामातुर्यमस्य च पूरणं न केनोऽपि कृतमभूत्, एतौ सर्वस्वदानेपऽपि न तृप्यतः । अतोऽस्य मुखं न देयं, यथाऽऽगतस्तथा गमिष्यति । इत्यामन्त्रणं कृत्वा सर्वेऽपि पराङ्मुखीभूय स्थिताः ॥ अथ गुणसारेणाऽपि निपुणत्वेन सर्वं ज्ञातम्। चिन्तितं च-यदहं स्त्रिया वचसाऽत्रागतस्तन्न भव्यं कृतम्, पानीयं गमितम्। 'अन्तरं नैव पश्यामि, निर्धनस्य शबस्य च'' इति नीतिवाक्यं जानन्नपि यदागमनं कृतं तन्मूर्खत्वमाविष्कृतम् । श्वशुरकुले मानमालिन्यं तत्पुंसां महदुःखम् । परन्तु किं क्रियते? यद्भवितव्यं तज्जातम्। पूर्वकृतकर्मणामीदृश एवोदयः । एवं संप्रधार्य न्यग्मुखं कृत्वा श्वसुरगृहे गतः । श्वश्रूरपि तथाऽवस्था दृष्ट्वा तयाऽपि नाऽऽदरः कृतः। आगम्यताम्, अस्मत्तनुजायां कुशलमस्ति' ? इति सामान्यवचसाऽऽलापितो द्वारमण्डपिकायां पट्टिकायां स्थितो विचारयति-पूर्व सधनाऽवस्थायामहमत्रागतोऽभूव तदा स्वजनवृन्दं सम्मिल्य कोश-द्विकोशं च सम्मुखमागत्य मिलन-भेटनादिकं कुर्वद् महदाटम्बर पूर्वं गृहे लात्वा प्रतिक्षणं सेवाविषये प्रवणमासीत् । अधुनाऽपि स एवाऽहं, न कोऽप्यागमनक्षेमोदन्तमपि पृच्छति । अतो जिनेनोक्तं तदेव सत्यं प्रतिभाति-स्वार्थिनः सर्वे सम्बन्धिनः, बिना स्वार्थमेको गुरुरेव । उत्कररूपोऽयं संसारस्तत्र सुगन्धवत्त्वं कुतः? यादृश उदयस्तादृशंभवत्येवेति जिनाज्ञा । उदयचिन्ताको हि मूर्खराड् ज्ञेयः । बन्धचिन्ताकारको हि साधकः सिद्धतामुपैतीति हेतोर्मोनमादाय स्थातव्यमिति मनः स्थिरं कृत्वा क्षुधितोऽपि मौनं कृत्वा स्थितः । सन्ध्यायां यदा गृहरसवती जाता तदा श्वशुरेणोक्तम्-उत्थीयतां, भोजनं क्रियताम् । भुक्त्वा पुनस्तत्रैव तथैव स्थितः । सपादप्रहररात्रौ गतायां पुनर्हट्टात् श्वशुर आगतः । आगत्य च घटिकामात्रं पार्थं स्थित्वाऽऽलापितः-भो अमुक श्रेष्ठिन् ! १. विचारम्। Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy