________________
श्रीधन्य
प्रथमः
चरित्रम्
पल्लवः
॥७॥
किमागमनप्रयोजनं भवताम् ? श्रेष्ठिनोक्तं-भवतां मिलनार्थम् ॥ श्वशुरणोक्तं-कियदिनानिस्थास्यति भवान् ? श्रेष्ठिनोक्तम्-नहि नहि, प्रातरेव यास्यामि। तेनोक्तम्-एवं चेत्, शीघ्रं रात्रिघटिकाद्वयाऽवशेषे उत्थाय गन्तव्यम्, यदधुना ग्रीष्मकालोऽस्ति। उत्सूरे गते महातापेन परिभूयते, अतः शीतलवेलायां गन्तव्यमिति वार्ता कृत्वा स्ववासगृहे गतः श्वशुरः । गुणसारेण चिन्तितंहा ! | मयाऽत्रागत्य महत्त्वं हारितं स्त्रीवचसा, अतोऽवतःशीघ्रगमनमेव श्रेयः । रात्रिं पश्चात्तापेनाऽतिवाह्य रात्रिघटिकाद्वयाऽवशेषे उत्थाय | 'कोऽपि जागर्ति? वयं यामः' इति सामान्यवचनमुक्त्वा निर्गतः । गृहेऽपि यो जागर्ति तेनोक्तम्ओमिति । मार्गे गमनं कुर्वता यत्र सूर्योदयः, हस्तरेखा दृष्टिपथं प्राप्ता तत्र स्थित्वा पञ्चनमस्कारस्मरणपूर्वकमुपवासप्रत्याख्यानं कृतम् । चतुर्दश नियमाश्च धारिताः । ततो जिनपतेः स्तोत्रादीनि पठन् मार्गे चलितः, क्रमेण नद्यास्तटे साधुदानस्थान प्राप्तः । चिन्तयितुं लग्नः-'अहो !' 'इमा कल्याणवती लाभभूमिः, अत्र मया शिवसुखनिदानं साधुभ्यो दानं दत्तम्, पुनरीदृशोऽवसरः कदा समेष्यति' ? इति ध्यायन् सगदगदं पुनः पुलकः सञ्जातः । अत्रागमने श्वशुरकुलाऽपमानादिदुःखं प्राप्त तत्सर्वं विस्मृतम्। समस्तगुणघातकपातकशातकं' यन्मुनये दानं दत्तम्, अनेन जायाया अनुग्रहमहं मन्ये। इत्येवं तत्र क्षणं स्थित्वा पुण्यं चानुमोदयित्वा पुनरेको विकल्पो मनस्युत्पन्नः, यदत्र गमनाऽऽगमनं कुर्वतो मम त्रयश्चत्वारो वा वासरा लग्नाः । गृहे तु रूप्यकमर्धरूप्यकं वा ऋणं जातं भविष्यति तत् कुतो दास्यामि ? अतो नद्यन्तःस्थितानि पञ्चवर्णानि वर्तुलानि सुघटितानीव जातानि सुकुमारत्वं प्राप्तानि कान्यपि सेरकप्रमाणानि द्वित्रिचतुष्पञ्चकादिमापकर्तु योग्यानि, अतो गृह्णाम्येतानि पाषाणगोलकानि । चतुष्पथे तोलनार्थ ग्रहीष्यन्ति वण्ग्ग्विराः । गृहे च स्थितानि साधुदानस्मारकाणि भविष्यन्तीति ध्यात्वा सक्थुकोस्थलीकायां भृतानि । मुखं बध्धवा मस्तके चोत्पाट्य चलितः ।
१. इदम्शब्दार्थ इमशब्दोऽपि। २. गौरवे बहुवचनम्। ३. नाशकम्।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org