Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 11
________________ श्रीधन्य प्रथमः चरित्रम् पल्लवः ॥२॥ रारोग्य-रूपादिसामग्रीसंयोगो दुर्लभतरः, तत्राप्यतिदुर्लभतमा श्रीजिनधर्मप्रवृत्तिः । तत्रेह जगति ईदृशः श्रीसर्वज्ञोक्तधर्मः परममङ्गलकारी समस्तदुःखोच्छेदकारी च भवति । असौ धर्मश्चतुर्द्धा-चतुष्प्रकारो भवति, दान-शील-'तपो-भावभेदात्। तत्र चतुर्णां धर्मभेदानां मध्ये सर्वेभ्यो ज्येष्ठतरो दानधर्मः, सर्वेष्वपि धर्मभेदष्वन्तश्चारित्वात् । तद्यथा-लौकिके लोकोत्तरे च सर्वत्र दानप्रवृत्तिज्येष्ठतरा । श्रीमन्तस्तीर्थंकरा अपि प्रथमं दानं दत्त्वा पश्चाद् व्रतं गृह्णन्ति । शीलधर्मेऽपि दानधर्मोऽविच्छिन्नः, यतो ब्रह्मव्रतग्रहणेऽसङ्ख्यातद्वीन्द्रियाणामसङ्ख्यातसंमूर्च्छिमपञ्चेन्द्रियाणां नवलक्षगर्भजपञ्चेन्द्रियाणां च प्रतिदिनमभयदानं दत्तं ।। स्वजीवस्याप्यभयदानं दत्तं, गर्भादिदुःखनाशकत्वात् । अतो शीलेष्वपि दानस्यैव मुख्यता। तथा तपोधर्मेष्वपि दानमन्तर्भवति, यतो षट्कायविराधनया रसवती निष्पाद्यते, उपवासादितपसि कृते तु तेषामभयदानं दत्तम्, तस्मात्तपस्वपि दानस्यैव मुख्यता। भावधर्मे तु सुतरामयमेव प्रभवति । यतः परमकरुणया जीवाऽजीवाऽहिंसनपरिणतिर्भावः, तत्राप्यभयमेव । मुनयोऽपि प्रतिदिनं देशनादानं ज्ञान-शिक्षादानं च ददाति । उत्कृष्टाऽभयसुपात्राभ्यां तीर्थङ्करनाम च बघ्नन्ति । लौकिकेष्वपि दानं सर्वत्र सफलम् । यतः सुपात्रे दत्तं महापुण्यनिबन्धनम्, 'इतरस्मिन्, दत्तमनुकम्पया प्रौढदयापोषकं भवति, राज्ञे दत्तं सन्मानादिमहत्त्वप्रापकम्, भृत्ये दत्तं भृत्यातिभिक्तितनोति, स्वजने दत्तं प्रेमवृद्धिपोषकम्, दुर्जने दत्तं दुर्जनाः सानुकूला भवन्ति। अतो दानं सर्वत्र सफलं, न क्वापि निष्फलम्। ___ समस्तधर्मशास्त्रे दानफलं यथा - १. हस्तलिखितपुस्तके तु सर्वत्र तपशब्दः प्रयुक्तोऽस्ति। २. इतरे लिखित पु०। ॥२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 496