Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
पल्लवः
पुनरागमिष्यति । जामातुर्यमस्य च पूरणं न केनोऽपि कृतमभूत्, एतौ सर्वस्वदानेपऽपि न तृप्यतः । अतोऽस्य मुखं न देयं, यथाऽऽगतस्तथा गमिष्यति । इत्यामन्त्रणं कृत्वा सर्वेऽपि पराङ्मुखीभूय स्थिताः ॥ अथ गुणसारेणाऽपि निपुणत्वेन सर्वं ज्ञातम्। चिन्तितं च-यदहं स्त्रिया वचसाऽत्रागतस्तन्न भव्यं कृतम्, पानीयं गमितम्। 'अन्तरं नैव पश्यामि, निर्धनस्य शबस्य च'' इति नीतिवाक्यं जानन्नपि यदागमनं कृतं तन्मूर्खत्वमाविष्कृतम् । श्वशुरकुले मानमालिन्यं तत्पुंसां महदुःखम् । परन्तु किं क्रियते? यद्भवितव्यं तज्जातम्। पूर्वकृतकर्मणामीदृश एवोदयः । एवं संप्रधार्य न्यग्मुखं कृत्वा श्वसुरगृहे गतः । श्वश्रूरपि तथाऽवस्था दृष्ट्वा तयाऽपि नाऽऽदरः कृतः। आगम्यताम्, अस्मत्तनुजायां कुशलमस्ति' ? इति सामान्यवचसाऽऽलापितो द्वारमण्डपिकायां पट्टिकायां स्थितो विचारयति-पूर्व सधनाऽवस्थायामहमत्रागतोऽभूव तदा स्वजनवृन्दं सम्मिल्य कोश-द्विकोशं च सम्मुखमागत्य मिलन-भेटनादिकं कुर्वद् महदाटम्बर पूर्वं गृहे लात्वा प्रतिक्षणं सेवाविषये प्रवणमासीत् । अधुनाऽपि स एवाऽहं, न कोऽप्यागमनक्षेमोदन्तमपि पृच्छति । अतो जिनेनोक्तं तदेव सत्यं प्रतिभाति-स्वार्थिनः सर्वे सम्बन्धिनः, बिना स्वार्थमेको गुरुरेव । उत्कररूपोऽयं संसारस्तत्र सुगन्धवत्त्वं कुतः? यादृश उदयस्तादृशंभवत्येवेति जिनाज्ञा । उदयचिन्ताको हि मूर्खराड् ज्ञेयः । बन्धचिन्ताकारको हि साधकः सिद्धतामुपैतीति हेतोर्मोनमादाय स्थातव्यमिति मनः स्थिरं कृत्वा क्षुधितोऽपि मौनं कृत्वा स्थितः । सन्ध्यायां यदा गृहरसवती जाता तदा श्वशुरेणोक्तम्-उत्थीयतां, भोजनं क्रियताम् । भुक्त्वा पुनस्तत्रैव तथैव स्थितः । सपादप्रहररात्रौ गतायां पुनर्हट्टात् श्वशुर आगतः । आगत्य च घटिकामात्रं पार्थं स्थित्वाऽऽलापितः-भो अमुक श्रेष्ठिन् !
१. विचारम्।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 496