Book Title: Dashvaika Sutram Author(s): Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 4
________________ मङ्गलम् दशवैका हारि-वृत्तिः . . सिद्धिगइमुवगयाणं कम्मविसुद्धाण सव्वसिद्धाणं । नमिऊणं दसकालियणिजुत्तं कित्तइस्सामि ॥१॥ व्याख्या-सिद्धिगतिमुपगतेभ्यो नत्वा दशकालिकनियुक्तिं कीर्तयिष्यामीति क्रिया। तत्र सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकाग्रक्षेत्रलक्षणा, तथा चोक्तम्-"इह बोंदिं चइत्ता णं, तत्थ गंतूण सिज्झइ"। गम्यत इति गतिः, कर्मसाधन: सिद्धिरेव गम्यमानत्वाद्गतिः सिद्धिगतिस्तामुप-सामीप्येन गताःप्राप्तास्तेभ्यः, सकललोकान्तक्षेत्रप्राप्तेभ्य इत्यर्थः, प्राकृतशैल्या चतुथ्यर्थे षष्ठी, यथोक्तम्-“छट्ठीविभत्ती भण्णइ चउत्थी' । तत्र एकेन्द्रियाः पृथिव्यादयः सकर्मका अपि तदुपगमनमात्रमधिकृत्य यथोक्तखरूपा भवत्यत आह–'कर्मविशुद्धेभ्यः क्रियते इति कर्म-ज्ञानावरणीयादिलक्षणं तेन विशुद्धा-वियुक्ताः कर्मविशुद्धाःकर्मकलङ्करहिता इत्यर्थः, तेभ्यः कर्मविशुद्धेभ्यः । आह-एवं तर्हि वक्तव्यं, न सिद्धिगतिमुपगतभ्यः, अव्यभिचारात्, तथाहि-कर्मविशुद्धाः सिद्धिगतिमुपगता एव भवन्ति, न, अनियतक्षेत्रविभागोपगतसिद्धप्रतिपादनपरदुर्नयनिरासार्थत्वादस्य, तथा चाहुरेके-"रागादिवासनामुक्तं, चित्तमेव निरामयम् । सदानियतदेशस्थं, सिद्ध इत्यभिधीयते ॥१॥” इत्यलं प्रसङ्गेन । ते च तीर्थादिसिद्धभेदादनेकप्रकारा भवन्ति, तथा चोक्तम्-"तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतित्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बु १ इह बोन्दि त्यक्त्वा तत्र गत्वा सिध्यति. २ षष्ठीविभक्त्या भण्यते चतुर्थी. इ तीर्थसिद्धा अतीर्थसिद्धाः तीर्थकरसिद्धा अतीर्थकरसिद्धाः खयंबुद्धसिद्धाः प्रत्येकबुद्धसिद्धाः बुद्धबोधितसिद्धाः स्त्रीलिङ्गसिद्धाः पुरुषलिङ्गासिद्धा नपुंसकलिङ्गसिद्धाः खलिङ्गसिद्धा अन्यलिङ्गसिद्धा गृहिलिङ्गसिद्धा एकसिद्धा अनेकसिद्धाः । --566 Jain Education I I For Private & Personel Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 574