Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वित् सुखं पर शवो मारिरोगाला योग्यः प्रवचन
जात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थों भवति, ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान भावान् सम्यक् प्ररूपयति नागममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, खसमयपरसमयवित् सुखं परमताक्षेपमुखेन खसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् परप्रवादिक्षोभमुत्पादयति, शिवो मारिरोगाद्युपद्रवविधातकृद् भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एवं गुणशतकलितो योग्यः प्रवचनम्-आगमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, उक्तं च-"गुणसुटिअस्स वयणं घयमहुसित्तोव्व पावओ भाइ । गुणहीणस्स न सोहइ णेहविहीणो जह पईवो ॥१॥” तथा चान्येनाप्युक्तम्"क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः॥१॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् ॥२॥ शीतेऽपि यत्नलब्धो न सेव्यतेऽग्निर्यथा इमशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥३॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः। शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥४॥” 'क|.१ न्यायसूत्रे पञ्चमाध्यायाद्याहिके सविस्तर जातिखरूपम्, २ °पि कार्ये. ३ °तसमन्वितः प्र० ४ गुणसुस्थितस्य वचनं धृतमधुसिक्तः पावक इव भाति । गुणहीनस्य न शोभते स्नेहविहीनो यथा प्रदीपः ॥१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 574